________________
२६
मार्गद्वयेऽन्तरा प्राप्ते, विभ्रान्त्याऽभीष्टवर्त्मनः । सर्वेऽपि प्रययुर्मार्गा-दुन्मार्गमनभीप्सितम् ॥ २९८॥
तन्मध्यात्साधुरेकस्तु मार्गमेवाऽन्वगात्परम् । न ज्ञातं केनचित् सोऽगात्, कुत्र वा केन वर्त्मना ॥ २९९॥ चलत्सु मार्गविभ्रान्त्या सर्वेषु सह सूरिणा । अकस्मादागमद्वयोम्नः, काचिद्वाणी सुपेशला ॥ ३००॥
नाभीष्ट एष पन्था भोः, किन्तून्मार्गः प्रयात तत् । अनेनाऽपरमार्गेण, स्थानमिष्टमवाप्स्यथ ॥ ३०१।
,
अग्रे द्रक्ष्यथ यूयं च, क्षेत्रं कर्पासितं सितम् । इति चिह्नं सुमार्गस्य, यात भोः सुखपूर्वकम् ॥ ३०२ ॥
सूरिणैषा श्रुता वाणी, साधुभिः सकलैरपि । चलद्भिरन्यलोकैश्च, सौच्चैः स्पष्टं विनिर्गता ॥ ३०३ ॥
केनेयं भाषिता भाषा ? कुतोऽयं ध्वनिरागतः ? | दृश्यते कोऽपि नैवात्र, सर्वेऽपीति व्यचिन्तयन् ॥ ३०४ ॥
कोऽस्त्ययं भाषते कश्च ? यः कोऽपि वदतूत्तरम् । घोषितं सूरिणाऽप्येवं, न च कोऽप्यवदत्पुनः ॥ ३०५॥
किमियं देवभाषा स्यात्तस्या वा सम्भवः कथम् । सम्भवो न नरस्यापि, गताः सर्वेऽपि विस्मयम् ॥ ३०६ ॥
सर्वापि भ्रान्तिरेवैषा, नूनमस्माकमद्भुता । सर्वेऽप्यग्रे ततश्चेलु-र्वाणीमवगणय्य ताम् ॥३०७॥৷
अग्रे चलत्सु सर्वेषु, मार्गे कुण्डलितः फणी । छत्रीकृतफणः सर्वैर्दृष्टो मार्गनिरोधकृत् ॥ ३०८॥
ध्रुवं देवानुभावोऽयं, श्रीमत्पार्श्वप्रसादतः । श्रुतपूर्वाऽपि सा वाणी, नूनं देवकृतैव नु ॥ ३०९ ॥
Jain Education International
For Private & Personal Use Only
ग्रन्थत्रयी
www.jainelibrary.org