________________
प्रतिष्ठातत्त्वम्
२५
पद्मासनाकृतौ बिम्ब-द्वयं लक्ष्म्या निकेतनम् । कार्योत्सर्गाकृतौ बिम्ब-द्वयं मङ्गलमन्दिरम् ॥ २८६।। तदाऽर्हद्दर्शनात्सर्वे-ऽप्यमन्दानन्दमेदुराः । सञ्जाता जातरोमाञ्चाः कृताञ्जलय आदरात् ॥ २८७।। सूरिसम्राट् ततः सर्वैः साधुभिः श्रावकैः सह । स्तोत्रादिभिः स्तुतिं चक्रे, भवतापशमावहाम् ॥ २८८।। कृत्वा स्तुतिं प्रभोः सम्यग्, भावनाश्च भवापहाः । तीर्थाधिष्ठायकान् देवान् , तीर्थोद्धाराय प्रार्थयत् ॥ २८९॥ तदैव च स्वयं तीर्थो-द्धारकार्यविनिश्चयम् । चक्रे चेतसि सूरीश - स्तीर्थभक्त्यैव प्रेरितः ॥ २९०॥ तानि बिम्बानि तत्कालं, सूरेः सदुपदेशतः । श्राद्धाः सहाऽऽगताः स्थाने, शुभेऽन्यत्र न्यवेशयत् ॥२९१॥ तथा चैकाम्बिकादेव्या-मूर्तिर्मन:प्रमोदिनी । अखण्डिता च तत्राऽभूत्, सर्वसिद्धिविधायिनी ॥ २९२॥ साऽपि न्यवेशि तैस्तत्रा-ऽकारयत् स्थापनां पुनः । तेषां सामान्यतः सूरिः, कृत्वा पञ्चनमस्कृतिम् ॥ २९३॥ सर्वामाशातनां तां च, दूरीकृत्य प्रयत्नतः । प्रारेभे श्रावकैस्तत्र पूजनाभावनादिकम् ॥ २९४॥ तथा चाङ्करसाङ्केन्दौ, वैक्रमेऽब्दे सिते दले। . दशम्यां मृगशीर्षस्या-ऽभूत्तत्तीर्थप्रवर्तना ॥ २९५॥ एवञ्च नेमिसूरीशात्, पुनः ख्यातिमवाप्तवत् । सर्वत्र तन्महातीर्थं, प्रत्यहं वृद्धिमद् भृशम् ॥ २९६॥ तद्दिनस्याऽपराह्ने च, सूरिराड् व्यहरत्ततः । मध्ये मार्गस्य तत्राऽभू-दाश्चर्यं चैकमद्भुतम् ॥ २९७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org