________________
२४
चमत्कृतौ च दृष्टान्तो, वर्ण्यतेऽत्र मयाऽद्भुतः । समुत्पन्नो महातीर्थे, श्रीमत्सेरीसकाभिधे ॥ २७४॥ साक्षात्कृतो मयाऽन्यैश्च, सूरिभिः साधुभिस्तथा । श्रावकाणां सहस्त्रैश्च, जनैरन्यैश्च भूरिभिः ॥ २७५ ॥
तथाहि - तन्महातीर्थं, सेरीसेति प्रसिद्धिभाक् । कलावपीह निस्तुल्य-प्रभावं वर्णितं बुधैः ॥ २७६ ॥
यत्र श्रीवस्तुपालेन, प्रासादे स्थापितं पुरा । बिम्बं श्रीनेमिनाथस्य, स्वबन्धोः पुण्यहेतवे ॥ २७७॥ ग्रन्थान्तरेभ्यो विज्ञेयं, वर्णनं चास्य विस्तृतम् । असंशयं महातीर्थ - मिदं पूर्णप्रभावभृत् ॥ २७८ ॥
कालानुभावतः किन्तु, नष्टप्रायमभूदिदम् । इयत्कालं च केनापि, नैव तस्य समुद्धृतिः ॥ २७९॥
एकदा पुण्ययोगेन, भव्यानां बोधहेतवे । विहरन्नेमिसूरीश - स्तत्तीर्थं समुपागमत् ॥ २८०॥
दृष्टानि तत्र नष्टानि, जिनचैत्यानि सर्वथा । तद्विम्बानि विकीर्णानि कानिचिच्च क्वचित्क्वचित् ॥ २८१ ॥
बिम्बानि तत्र चासीरन्, कानिचित् खण्डितान्यपि । इतस्ततश्च विक्षिप्ताः, खण्डाः परिकरादयः ॥२८२॥ तथा चाशातनां बह्वीं, पशुपक्षिनरैः कृताम् । दृष्ट्वा सर्वेषु बिम्बेषु, सूरिः खिन्नोऽभवत्तदा ॥ २८३॥ चत्वार्येव च बिम्बानि, पार्श्वनाथजिनेशितुः । अखण्डितानि चासीरन्नद्भुतानि महान्ति च ॥ २८४॥ प्रतिष्ठितानि सर्वाणि, पुराचार्यैः प्रभावकैः । दर्शनादेव भव्यानां भवनाशीनि तानि च ॥ २८५॥
Jain Education International
For Private & Personal Use Only
ग्रन्थत्रयी
www.jainelibrary.org