________________
प्रतिष्ठतत्त्वम्
यश्च तीर्थकृतां काले, जन्मकल्याणकादिके । इन्द्रसिंहासनस्यापि, कम्पनं जन्मसूचकम् ॥२६२॥ एवं भगवतां तेषां, जन्मकल्याणकादिषु । उद्योत एव सर्वत्र, जायते नरकेष्वपि ॥ २६३॥ तत्पुण्यपरमाणूना-मेव सामर्थ्यमद्भुतम् । दूरस्थितेऽपि तीर्थेशे, कम्पनोद्योतनादि यत् ॥ २६४॥ आज्ञया देवराजस्य, यद्धरिणैगमेषिणा । अनीकाधिपदेवेन, सुघोषाघण्टवादनम् ॥ २६५।। तदुच्छलितशब्दानां, घण्टास्वन्यासु कर्षणम् । योजनासङ्ख्यसंख्येय-दूरगास्वपि यद्दिवि ॥ २६६।। घण्टाशब्दश्रुतौ पश्चा-दुपयुक्तेषु नाकिषु । उत्सुकेषु च शक्राज्ञां, संश्रोतुं सुप्रयत्नतः ॥ २६७॥ तेन देवेन तद्घण्ट-द्वारेणैव यदञ्जसा । जिनजन्मादिकाशेष-ज्ञापनं तद्दिवौकसाम् ॥ २६८।। तेषामपि च संख्येया-संख्ययोजनवर्तिनाम् । यद्रतश्च शकाज्ञा-शब्दसंश्रवणं भवेत् ॥ २६९।। एवञ्चाऽनेकधा शक्ति-रचिन्त्या पुद्गलेष्वियम् । कियती वर्ण्यते तत्र, दुर्जेया ह्यस्मदादिभिः ॥ २७०॥ सर्वं लोकं समन्ताच्च, चतुभिः समयैरपि । शब्दाद्याः पुद्गलस्कन्धा व्याप्नुवन्तीति नाद्भुतम् ॥ २७१॥ शक्तौ सत्यामचिन्त्याया-मेवं च परमाणुषु । किमसम्भावनास्थानं, सर्वमित्युपपत्तिमत् ॥ २७२।। एवं मन्त्रादिसामर्थ्यात्, प्रतिष्ठादौ च कर्मणि । मूर्ती देवस्य सान्निध्ये, किमशक्यं चमत्कृतौ ॥२७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org