________________
२२
मन्त्रेणाऽऽहूयमानाश्च, फणिनो मन्त्रवादिभिः । यथाऽऽगत्य विषं प्रत्या- ददते जीवितेच्छवः ॥२५०॥
दाहानुकूलसामर्थ्यं, दूरस्थेऽपि हुताशने । सुप्रयुक्तो यथा मन्त्रः, प्रतिबध्नाति सत्वरम् ॥२५१॥ यथाऽऽकाशस्थिताः सर्वे, ग्रहा अपि वितन्वते । इष्टानिष्टं यथा स्थानं, ज्योतिःशास्त्रे विनिश्चितम् ॥ २५२॥ यथा वा ग्रहशान्तिः स्याद्-ग्रहशान्तिस्तवादिभिः । सामर्थ्यं सर्वमेतन्नु, पुद्गलादेर्निबोधत ॥ २५३॥
भाषैकवर्गणास्कन्धा - भाषापरिणताः खलु । अत्र शब्दतया यस्मान्मते जैनेश्वरे मताः ॥२५४॥ एवं मनोऽपि विज्ञेयं, दर्शनेऽत्र जिनेशितुः । तद्वणात्मकस्कन्धा मनस्त्वपरिणामिनः ॥ २५५ ॥
पुण्यं पापमपीत्थं च, विज्ञेयं पुद्गलात्मकम् । कार्मणवर्गणास्कन्धा-यतः कर्म शुभाशुभम् ॥ २५६॥ तैरेव जीवसम्बद्धै- रात्मनाऽऽत्मनि सर्वतः । औदारिकादयः सर्वे, कृष्यन्ते परमाणवः ॥ २५७॥
एवञ्च सिद्धजीवानां, मुक्तानां सर्वकर्मभिः । पुद्गलस्य न कस्यापि, सम्बन्धः स्वात्मसान्मतः ॥२५८॥
आहारपुद्गलादानं, नाप्यतः सिद्धदेहिनाम् । अभावात् सर्वथा तेषां तदाकर्षककर्मणाम् ॥ २५९ ॥
सामर्थ्यं परमाणूना-मचिन्त्यं, यान्ति ते यतः । समयैक्येन लोकान्ता लोकान्तमपरं ध्रुवम् ॥ २६०॥
`नयन्त्यात्मानमपि ते, समयेनैव निश्चितम् । लोकान्तमेव लोकान्ता-दित्यनेका विचारणा ॥ २६१ ॥
Jain Education International
For Private & Personal Use Only
ग्रन्थत्रयी
www.jainelibrary.org