________________
प्रतिष्ठातत्त्वम्
असंशयं; यतोऽनेक-तीर्थेष्वन्यत्र खल्वपि । जातोऽसावद्भुतः सम्यक् , शुद्धानुभवगोचरः ॥२३८॥ शास्त्रेषु विनियुक्तस्य, यतः पूज्यैर्महर्षिभिः । अङ्गाङ्गिभावसम्पन्न-मन्त्राद्वानादिसद्विधेः ॥२३९॥ समग्रकर्मकाण्डस्य, सत्प्रभावादनुत्तरात् । सद्भक्त्या च समाकृष्टा, दूरस्थानस्थिता अपि ॥२४०॥ तत्ततीर्थकृतां तीर्थो-नतिभक्तिपरायणाः । तत्तच्छासनदेवा वा, देव्यो वा दिव्यशक्तितः ॥२४१॥ तत्र सान्निध्यमाधाय, तीर्थे चैत्येऽथवाऽऽकृतौ । तीर्थप्रभावनार्थाय, दर्शयन्ति चमत्कृतिम् ॥२४२॥ विशिष्टपुरुषेणात्र, कृतायाः सम्यगुह्यताम् । प्रतिष्ठायाश्चमत्कार-माहात्म्यमिदमद्भुतम् ।।२४३।। यदत्राकर्षणं दूर-वर्तिनामपि नाकिनाम् । संनिधानं च सान्निध्या-द्दर्शनं च चमत्कृतेः ॥२४४|| सर्वः सोऽयं प्रभावश्च, मन्त्रादीनां निबुध्यताम् । स्थानवर्णार्थशुद्धानां, विशुद्धेर्मनसस्तथा ॥ २४५।। मणिमन्त्रौषधीनां च, प्रभावोऽचिन्त्य एव हि । गीयन्ते परमाणूना-मप्यचिन्त्या हि शक्तयः ॥२४६।। यथा लोहमयस्कान्तो, दूरगोऽप्यपकर्षति । तथा मन्त्रादिशब्दाद्यैः, कृष्यन्ते देवता अपि ॥ २४७ ॥ यथाग्ग्रे सर्वमन्त्राणां, प्रस्थानपञ्चकात्मके । सूरिमन्त्रे महामन्त्रे, सर्वशुद्ध्याऽधिकारिणा ॥२४८॥ विधिनाऽऽराधिते सम्यक्, तदधिष्ठायकाः सुराः । सान्निध्यं कुर्वते नूनं, काम्यसिद्धीश्च तन्वते ॥ २४९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org