SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २० श्रीहीरनामधेयानां सूरिषु चक्रवर्तिनाम् । आज्ञैषा यत्ततः शुद्धा - शयस्फूर्तेः समुद्भवात् ॥२२६॥ इत्थञ्चानुपयोगित्वं, प्रवदन्तीह सर्वथा । ये प्रतिष्ठापितत्वस्य, गुर्वाद्यैश्चैव मूर्तिषु ॥ २२७॥ विधिना च प्रतिष्ठापि-तत्त्व एव च निर्भरम् । कुर्वन्ति ये बुधास्ते स्वा-शयं जानन्ति नापरे ॥२२८॥ एवञ्च बाह्यबिम्बाद, मुख्यदेवैकगोचरः । निज एव हि भावोऽपि स्यात्प्रतिष्ठोपचारतः ॥२२९॥ निजभाव: स एवाय- मित्यभेदोपचारतः । प्रतिमायां यतोऽर्च्यत्व - मापादयति निश्चितम् ॥ २३०॥ स्यात्तदध्यवसायस्य, नाशे नन्वेवमाकृतौ । अप्रतिष्ठिततापत्तिरिति चेदत्र कथ्यते ॥२३१॥ तद्विनाशेऽपि बिम्बादौ, तदाहितस्य सत्त्वतः । सदोपचरितारव्यस्य, स्वभावस्य न दूषणम् ॥२३२॥ द्विधोपचरिताख्यः स, स्वभावो गीयते बुधैः । एकः स्वाभाविकश्चान्य- औपाधिक इति स्मृतः ॥२३३॥ तत्राप्याद्यः परज्ञत्व- परदर्शकतात्मकः । अन्त्यो विचित्ररूपश्च तथा सर्वं समञ्जसम् ॥२३४॥ एवञ्च विधिशास्त्रेण, सद्गुरूणां प्रसादतः । सदाम्नायेन लब्धेन, बोधिताद्विधिवृन्दतः ॥ २३५॥ स्थानवर्णार्थयोगादि - विशिष्टगुणशालिना । श्रद्धाबोधसदध्यात्म-निर्मलेन महात्मना ॥ २३६॥ विहितायां प्रतिष्ठाया - मर्हतो जगदीशितुः । विधिमन्त्रादिसामर्थ्याच्चमत्कारोऽपि जायते ॥ २३७॥ Jain Education International For Private & Personal Use Only ग्रन्थत्रयी www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy