________________
प्रतिष्ठतत्त्वम्
ते हि मूर्तिगता भेदा-आद्रियन्ते फलावहाः । आत्मविशेषके भक्ति-विशेषाधायकत्वतः ॥२१४॥ तथाहि सुधियः केचित्, स्वयंकारितया ध्रुवम् । स्थापनयाऽत्र मन्यन्ते, पूजां बहुफलप्रदाम् ॥२१५॥ अन्ये च ब्रुवते पूज्याः, पूजां कारितया तया । गुरुभिर्मातृपित्राद्यैः, पूजकानां फलावहा ॥२१६॥ विधिनैव विशिष्टेन, तया कारितया परे । विशिष्टफलदायित्वं, पूजनायाः प्रचक्षते ॥२१७॥ विशिष्टविधिसामग्री, विनापि भक्तिशालिभिः । लेपनादौ कृते भूमौ, गोमयादिकवस्तुभिः ॥२१८।। मनःस्थापनया शुद्ध-स्थानमात्रेऽपि सत्फला । मता पञ्चनमस्कार-स्थापनामात्रतोऽर्चना ॥२१९॥ सर्वं हि कर्म सर्वस्यो-पयोगसदृशं मतम् । प्रशस्तं जातितः किञ्चि-नियतं नैव कस्यचित् ॥२२०॥ ततस्तस्य तदिष्टं यत, कर्म यस्योपकारकम् । इति सर्वेऽपि ते पक्षा-विशेषेण फलावहाः ॥२२१॥ अत एव नयाभिज्ञैर्यशोविजयवाचकैः । प्रतिमाशतकस्यैवं, वृत्तौ न्यायविशारदैः ॥२२२॥ तिसृणामेव मूर्तीनां, समाख्याता ह्यवन्द्यता । शुद्धाशयापरिस्फूर्ते-स्तत्राऽनादरणीयता ॥२२३॥ तत्र दिगम्बरैर्या च, कटुकैश्च प्रतिष्ठिता । या च द्रव्येण निष्पन्ना, द्रव्यलिङ्गभृतामिह ॥२२४॥ तद्भिन्नाः प्रतिमाः सर्वा- वन्दनीयाश्च सम्मताः । वासक्षेपाच्च साधूनां, वन्द्यास्तिस्रोऽपि ताः खलु ॥२२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org