________________
ग्रन्थत्रयी
तथा ह्यात्मसमापन्ना, प्रतिष्ठाजनिताऽनघा । समापत्तिर्भवेन्नूनं, पारम्पर्येण मूर्तिगा ॥२०२॥ निजनिरूपकस्थाप्या-लम्बनत्वेन सा यतः । मूर्ती प्रतिष्ठितत्वस्य, व्यवहारस्य कारणम् ॥२०॥ मूर्तिगां तां समापत्ति, प्रत्यभिज्ञाय पूजना । विहिता हि मता शीघ्रं, विशिष्टफलदायिनी ॥२०४।। मूर्ती यतश्च लोकानां, प्रतिष्ठितत्वगोचरम् । यथार्थं प्रत्यभिज्ञानं, पूजाफलप्रयोजकम् ॥२०५।। ततश्चैव प्रतिष्ठायां, गुणिनामधिकारिता । विशिष्टस्याशयस्यात्र, स्फूर्तये स्वीकृता नये ॥२०६।। इयं प्रतिष्ठिता मूर्ति-विशिष्टगुणशालिना । इत्येवं प्रत्यभिज्ञाने, भाववृद्धिर्हि दृश्यते ॥२०७॥ प्रतिष्ठाविधिसामग्र्य-सम्पत्तावप्युपस्थितात् । मनसः प्रत्यभिज्ञानात्, प्रतिष्ठाफलमीप्सितम् ॥२०८॥ वैकल्प्ये बाह्यसामग्र्यास्तत्र हि फलदायिता । मनसाऽपि कृताया वै, स्थापनाया बुधोदिता ॥२०९॥ अत एव प्रतिष्ठाया-माकाङ्क्षायां विभाव्यताम् । इतिकर्तव्यतायाः श्री-हारिभद्रमिदं वचः ॥२१०॥ न्यासकाले तु मन्त्रस्य, सिद्धानुस्मृतिपूर्वकम् । मुक्तौ तत्स्थापनस्येव, कर्तव्यं स्थापनं हृदा ॥२११॥ यतो भक्तिविशेषस्या-धायकत्वेन सत्फला । प्रतिष्ठाऽन्ये ततो भेदा, हारिभद्रवचस्यपि ॥११२॥ ग्रन्थे भगवता तेन, यत्पूजाविंशिकाभिधे । स्वप्रतिष्ठापितत्वाद्या-विशेषा अपि कीर्तिताः ॥२१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org