SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठातत्त्वम् फलावञ्चकयोगस्तु, सद्भ्य एव नियोगतः । सानुबन्धफलावाप्ति-धर्मसिद्धौ सतां मता' ॥१९०॥ लवमात्रमयं बीज-न्यासरूपः क्रमात् क्रमात् । प्रतिष्ठागतभावश्च, बृंहणीयः सुयत्नतः ॥१९१॥ नियमाद्देशकालाद्या-नुरूपा योचिताचिता । भाववृद्धिस्तथा शान्ति-रार्जवं मार्दवं तथा ॥१९२॥ सन्तोषश्चैव मैत्र्यादि-भावनं चैभिरादरात् । सेवितैः साधनैः सोऽयं, पुष्टो भवति निश्चितम् ॥१९३।। बीजन्यासात्मकः सोऽयं, भावो ब्रह्मरसात्मकः । सिद्धार्थो निरपायश्च, मन्त्रराडात्मसंस्थितः ॥१९४॥ तत्वज्ञमुष्टिरानन्दो, ह्यसङ्गोऽचिन्त्य एव च । उच्यते स्तूयते चैव, गीयते पूर्वसूरिभिः ॥१९५॥ क्रमाच्चैव प्रतिष्ठातः, प्रतिष्ठा परमा भवेत् । जीवरूपस्य लोहस्य, स्वर्णता सिद्धतात्मिका ॥१९॥ नियोगवाक्यतः स्थाप्ये, परात्मनि भिदा लयात् । भवेत्कर्ममलं सर्वं, समापत्तेहि भस्मसात् ॥१९७॥ ननु प्रतिष्ठितत्वेऽपि, जीवस्यैवं प्रतिष्ठया । मूर्ती प्रतिष्ठितत्वं नो, तत्कथं पूज्यता भवेत् ॥१९८|| अदृष्टस्य क्षये चैवं, प्रतिष्ठाकर्तृवर्तिनः । प्रतिमा नैव पूज्या स्या-दिति चेत्, प्रोच्यतेऽत्र नु ॥१९९॥ तात्त्विकीयं प्रतिष्ठा तु, निरुक्ताऽऽगमनीतितः । बाह्ये तु जिनबिम्बादौ, सोपचारात्मिका मता ॥२०॥ प्रतिष्ठातत्त्वविज्ञाना-हितभक्तिविशेषतः ।। प्रतिष्ठा सा च लोकानां, पूजाफलनियामिका ॥२०१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy