________________
ग्रन्थत्रयी
भवेदेवाऽन्यथाऽपूर्वो-च्छेदापत्तिरसुन्दरा । एवमन्योऽपि दोषोऽत्र, भाव्यतां कृतबुद्धिभिः ॥१७८॥ यतो यस्मिन्नभूद्विम्बे प्रतिष्ठा विधिनाऽनघा । तत्र किञ्चिद्विभागानां, नाशाद्विम्बान्तरोद्भवः ॥१७९॥ तत्र प्रतिष्ठाध्वंसस्य, सर्वथा सम्भवोऽपि न । तथा बिम्बान्तरे तत्र, सर्वदा स्यादपूज्यता ॥१८०॥ इत्थं मूर्ती प्रतिष्ठातः शक्तेरप्यप्रकल्पनम् । आत्मनिष्ठफलोद्देशात्, प्रतिष्ठायाः कृतत्वतः ॥१८१॥ एवं मूर्तिषु देवानां, सान्निध्यमपि दुर्घटम् । अहङ्कारममत्वस्य, वीतरागेष्वसम्भवात् ॥१८२॥ सरागेषु च देवेषु, मिथ्यात्वाद्देवताधियः । व्यासङ्गे च तथा तेषां, सानिध्यानुपपत्तितः ॥१८३॥ प्रतिष्ठा नाम चेयं या, निजभावात्मिकोदिता । बीजन्यासो बुधैः प्रोक्तः, परमः सोऽयमद्भुतः ॥१८४॥ यतो बीजस्य पुण्यानु-बन्धिपुण्यस्य वाऽथवा । सम्यक्त्वस्यानया न्यास-आत्मनि क्रियतेतराम् ॥१८५॥ एवमस्य भवेद्वीज-न्यासस्याभ्युदयः फलम् । मुक्तौ चित्तनिवेशाच्चा-ऽवञ्चकावाप्तिरप्यतः ॥१८६॥ तत्रावञ्चकयोगाश्च, योग-क्रिया-फलाभिधाः । सम्प्रणीतास्त्रयो योग-दृष्टिग्रन्थे तथा हि च ॥१८७।। 'सद्भिः कल्याणसम्पन्न-दर्शनादपि पावनैः । तथादर्शनतो योग-आद्यावञ्चक उच्यते ॥१८८॥ तेषामेव प्रणामादि-क्रियानियम इत्यलम् । क्रियाऽवञ्चकयोगः स्या-न्महापाक्षगोदयः ॥ १८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org