________________
प्रतिष्ठातत्त्वम्
क्रियाणामपि सर्वासां, तत्फलानां च यद्यपि । सर्वत्रोद्देश्यसम्बन्ध-भावो हि व्यवहारतः ॥१६६॥ तथापि निश्चयात्त्वत्र, भाष्यादौ सुव्यवस्थिता । सर्वक्रियाफलानां च, स्वात्मसम्बन्धितैव नु ॥१६७॥ आत्मनिष्ठफलोद्देशात् क्रियमाणस्य कर्मणः । हेतुत्वकल्पनौचित्यं, तत्रैवातिशयं प्रति ॥१६८॥ प्रतिष्ठाविधिना चैवं, जनितो जीववर्त्ययम् । अतिशयो ह्यदृष्टाख्यः, पूजाफलप्रयोजकः ॥१६९॥ प्रतिष्ठाध्वंसतश्चात्रा-न्यथासिद्धत्वशङ्कनम् । नैव युक्तमदृष्टस्य, मूर्तिपूजाफलादिषु ॥१७०॥ तत्तद्ध्वंसाददृष्टस्य, दानयागादिकर्मसु । अन्यथासिद्धभावस्य, तुल्यापत्तिप्रसङ्गतः ॥१७१॥ प्रतिष्ठाजन्यशक्तेर्वा, तस्या ध्वंसस्य वा कृतौ । पूजनाफलहेतुत्वेऽ-निष्टापत्तिर्भवेदपि ॥१७२॥ यतोऽप्रतिष्ठितत्वस्य, प्रतिमायां भ्रमेऽपि नु । विशिष्टार्चाफलापत्तिः शक्तिध्वंसादिसत्त्वतः ॥१७३॥ किञ्च ध्वंसस्य यद्यत्र, पूजनाफलहेतुता । पूजाफले प्रतिष्ठायाः, प्रतिबन्धकता तदा ॥१७४॥ यतः सा कारणीभूता-भावस्य प्रतियोगिता । अतथाव्यवहाराच्च, नातेष्टापत्तिरप्यथ ॥१७५।। क्तप्रत्ययस्थलेऽप्येवं, प्रोक्षिता इति वाक्यतः । ध्वंसव्यापारकत्वस्या-ऽकल्पनापि वरीयसी ॥१७६।। फले कालान्तरीये च, चिरनष्टस्य कर्मणः । भावव्यापारकत्वैक-नियमोऽपि हि विश्रुतः ॥१७७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org