SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १४ देवजातिप्रविष्टस्य, संसारस्थस्य नाकिनः । नियमात्सन्निधानस्या दर्शनान्मन्त्रतोऽपि च ॥ १५४ ॥ अकिञ्चित्करभावाच्च, कादाचित्कस्य सन्निधेः । द्वितीयोऽपि न पक्षः स नत्र सम्यगथोच्यते ॥ १५५ ॥ तथा ह्यात्मीयभावस्य, विशिष्टस्यैव सूरिभिः । प्रतिष्ठात्वं समाम्नातं, ग्रन्थे षोडशकाभिधे ॥१५६॥ या मुख्यदेवतोद्देशात् स्वात्मनि स्थापनाऽनघा । निजभावस्य सा ज्ञेया, प्रतिष्ठा पारमार्थिकी ॥ १५७॥ समापत्त्यात्मिका चेयं, निजात्मनि परात्मनः । समापत्तिः स एवाहं, परमात्मेति सोदिता ॥ १५८॥ ध्याताऽन्तरात्मा ध्येयस्तु, परमात्मा प्रकीर्तितः । ध्यानं चैकाग्ग्रसंवित्तिः समापत्तिस्तदेकता ॥ १५९ ॥ मणाविव प्रतिच्छाया, समापत्तिः परात्मनः । क्षीणवृत्तौ भवेद् ध्याना - दन्तरात्मनि निर्मले ॥ १६०॥ यस्यैकस्य गुणस्यात्र, सिद्धेरुद्देशतः कृतम् । अनुष्ठानं ततः प्राय-स्तदेकगुणगोचरा ॥१६१ ॥ परमात्मसमापत्तिर्व्युत्पन्नस्येह जायते । ध्यात्रादिकल्पनापेता, ध्येयमात्रावलम्बिनी ॥ १६२॥ प्रतिष्ठायां तु विज्ञेया, समापत्तिर्विलक्षणा । यतोऽत्र स्थापनोद्देशा-दनुष्ठानप्रवर्तनम् ॥१६३॥ तस्याः सर्वगुणारोप - विषयत्वाच्च भावतः । गुणैर्भागवतैः सर्वैः समापत्तिस्ततो भवेत् ॥ १६४॥ यत्स एवाहमित्येवं, परात्मस्थापनात्मिका । निजात्मनि प्रतिष्ठोक्ता, प्रतिष्ठातत्त्ववेदिभिः ॥१६५॥ Jain Education International For Private & Personal Use Only ग्रन्थत्रयी www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy