________________
प्रतिष्ठातत्त्वम्
यद्वा, तुलादिसामग्या, जायते देवसन्निधिः । लिङ्ग कर्मानुरूपं च, व्यञ्जयन्त्येव देवताः ॥१४२॥ पाप्ययं वाऽथ निष्पाप-स्तुलारूढ इतीह धीः । तज्जन्यो वाऽथ संस्कारः, सन्निधिः कथितो बुधैः ॥१४३॥ लिङ्गं चैवमपि ज्ञेयं, नमनोन्नमनादिकम् । शक्त्यभावेऽपि सर्वत्र, सर्वं चैवं व्यवस्थितम् ॥१४४॥ विस्तरेण कृतं चात्र, प्रकृतं तन्यतेऽधुना । अथ जैनमते मूत्तौ, प्रतिष्ठा पूज्यतोच्यते ॥१४५॥ न्यायोपार्जितवित्तेन, कारितस्याहंतः प्रभोः । शुद्धभावेन बिम्बस्य, प्रतिष्ठा स्यान्महोदया ॥१४६|| संक्षेपतस्त्रिधा ज्ञेया, प्रतिष्ठा शास्त्रसम्मता । व्यक्त्याख्या क्षेत्रनामा च, महारख्या च प्रकीर्तिता ॥ १४७॥ विहरत्तीर्थनाथस्य, तत्काले या विधीयते । प्रतिष्ठा, सा भवेव्यक्ति-प्रतिष्ठा प्रथमाऽनघा ॥१४८॥ सर्वेषां ऋषभाद्यानां, भवेत्तीर्थकृतां च या । सा क्षेत्राख्या प्रतिष्ठा स्याद्भरतादौ भवाऽपहा ॥१४९।। तीर्थङ्कराणां सप्तत्य-धिकस्यात्र शतस्य या । ज्ञेया महाप्रतिष्ठा सा, सदातनशिवावहा ॥१५०॥ प्रतिष्ठा नाम किन्न्वत्र मुख्यस्य मुक्तिवासिनः । स्याद्देवताविशेषस्य, सन्निधानमभीप्सितम् ॥१५१॥ संसारवर्तिनः किं स्या-त्तदनुजीविनोऽथवा । सन्निधानं नु देवस्य, प्रथमस्तत्र नोचितः ॥१५२।। शिवं गतस्य देवस्य, क्षीणरागादिभावतः । प्रबलैरपि मन्त्राद्यै-र्भवेदानयनं न यत् ॥१५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org