________________
ग्रन्थत्रयी
तत्रावच्छेदकं यच्च, धात्वर्थत्वे फलात्मकम् । तच्छालित्वं च कर्मत्वं, निराबाधं विराजते ॥१३० ॥ यतोऽवच्छेदकस्तत्र, संयोगस्तस्य सत्त्वतः । साक्षादेव च सम्बन्धाद्, व्रीहौ कर्मत्वसङ्गतिः ॥१३१॥ खण्डशः शक्तिमन्तृणां, मते तत्र द्वितीयके । संयोगे व्यापृतौ चैव, मता शक्तिः पृथक् पृथक् ॥१३२ ॥ तृतीये तु मते शक्तिः, संयोगं प्रविमुच्य नु । व्यापारे संमता नूनं, विशेषे शुद्ध एव हि ॥१३३॥ युज्यते सुष्ठ कर्मत्व-मत्रापि मतयोर्द्वयोः । व्रीहौ यत्तत्क्रियाजन्य-फलशालित्वमीरितम् ॥१३४॥ प्रोक्षणादिक्रियाजन्य-संयोगात्मफलं यतः । साक्षादेव च सम्बन्धाद्, व्रीहिषु वर्तते ध्रुवम् ॥१३५।। इत्थञ्च प्रोक्षणोद्भूत-शक्तेरस्वीकृतावपि । व्रीहौ च वृत्त्यभावेऽपि संस्कारस्यात्मवर्तिनः ॥१३६।। संयोगात्मफलस्यैव, व्रीहिषु सत्त्वतः किल । कथं घटेत कर्मत्व-मित्याशङ्का शमं गता ॥१३७॥ तुलादावपि तुल्यस्य, जयभङ्गौ न शक्तितः । तुलारोहणसामग्री, तत्राधिवासपूर्विका ॥१३८॥ सत्यासत्यप्रतिज्ञत्व-सहिता किन्तु कारणम् । सा धर्माऽधर्मयोस्तुल्ये जयभङ्गफलार्पिणी ॥१३९।। निष्पापः पापवान् वाह-मित्याकारेण संगता । सा वा ज्ञानविशेषेण, जयभङ्गप्रयोजिका ॥१४०॥ प्रतिज्ञाशुद्धयशुद्धी वा सामग्याऽपेक्ष्य वा तया । धर्माधर्मों च जन्येते, ताभ्यां जयपराजयौ ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org