________________
प्रतिष्छतत्त्वम्
विक्लित्त्या द्विविधं भानं प्रयोगे चात्र कर्मणि । अनिष्टापत्तितश्चेदं, गौरवान्न परैर्मतम् ॥ ११८॥ विशिष्टशक्तितस्तैस्तु, लाघवस्य विभावनात् । व्यापारे च फले चैव, खण्डशः शक्तिरिष्यते ॥११९॥ पदार्थो हि पदार्थेने-त्येवं व्युत्पत्तिरत्र च । अव्याहतापि विक्लित्त्या, द्विधा भानं न कर्मणि ॥ १२० । इत्थञ्चैवात्र विक्लित्त्या, व्यापारस्य परस्परम् । अनुकूलत्वसम्बन्ध - श्वाकांक्षाभास्य एव हि ॥१२१ ॥ केचित्त्वत्रापि पक्षे नो, सम्मता किन्तु तैर्मता । धातोः शक्तिर्लघीयस्त्वा-व्यापारे शुद्ध एव नु ॥१२२॥ ननु कस्य पदस्यात्र, फलार्थत्वमुरीकृतम् । द्वितीयार्थो हि वृत्तित्वं, फलवाचि न विद्यते ॥१२३॥ न चैतत्सुन्दरं यस्माद्, द्वितीयार्थः फलं मतम् । आधेयत्वं च संसर्गः, प्रकृत्यर्थफलार्थयोः ॥१२४॥ चैत्रेण पच्यते सूपः, प्रयोगे कर्मणीह तु । चैत्रोत्तरतृतीयायाः, कृतिरर्थः प्रकीर्तितः ॥१२५।। चैत्रस्य त्वन्वयस्तत्र, वृत्तिसंसर्गतः खलु । व्यापारे चाऽन्वयः कृत्या, व्यापारस्यान्वयः फले ॥१२६ ॥ आख्यातार्थश्च सङ्गीतो, बुधैरत्र फलात्मकः । प्रयोगे कर्मणीत्येवं, घटना दोषवर्जिता ॥१२७।। एवं मतत्रयेऽप्यत्र, व्रीहिषु प्रोक्षणस्थले । कर्मत्वानुपपत्तिों, शङ्कनीया कदाचन ॥१२८॥ तथाहि प्रोक्षतीत्यत्र, धात्वर्थः प्रथमे मते । संयोगेन विशिष्टा हि, विशेषव्यापृतिर्मता ॥१२९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org