________________
१०
इत्थञ्चाऽनन्तशक्तीनां ध्वंसादीनामकल्पनात् । ज्ञेयमत्र लघीयस्त्वं, शक्तिपक्षे च गौरवम् ॥१०६॥
शक्तिव्रहावपीत्थं नो जायते प्रोक्षणादिना । किन्त्वात्मन्येव सम्बद्ध-मपूर्वं जायते ततः ॥ १०७॥
यत्प्रसूनाञ्जलौ विद्वानुदयनः प्रणीतवान् । संस्कार: पुंस एवेष्टः, प्रोक्षणाभ्युक्षणादिभिः ॥ १०८ ॥ कारीरीयागतो जन्य-मपूर्वं चात्मवर्त्यपि । यथा परम्परायोगात्, सम्बद्धं स्यात्पयोमुचा ॥१०९॥ तथात्र व्रीहिनिष्ठस्या - पूर्वं प्रोक्षणसम्भवम् । कालान्तरीयकार्यस्य, पारम्पर्येण कारकम् ॥११०॥ एवं खल्ववघातादा-वङ्गापूर्वप्रयोजकः । व्रीहेः संप्रोक्षितस्यैव, विनियोगोऽपि सङ्गतः ॥ १११ ॥
शास्त्रोक्तकर्मकर्त्रादे-र्वैगुण्यात्साधनस्य तु । उभयत्र फलाभाव - स्तुल्य आगमिकत्वतः ॥ ११२ ॥ नन्वेतस्मिन् मते व्रीहीन्, प्रोक्षतीतिविधानतः । कथं घटेत कर्मत्वं, द्वितीयाश्रुतिबोधितम् ॥११३॥
यतो नु व्रीहिवृत्तित्वं, संभवेन्न कदाचन । प्रोक्षणादिकजन्यस्या-पूर्वस्यात्मविवर्तिनः ॥ ११४॥
न च स्वाश्रयसंयोगात्, सम्बन्धात्तद् घटिष्यते । सम्बन्धस्य हि साक्षात्त्वे, पारम्पर्यं न युक्तिमत् ॥११५॥
अत्रोच्यते, यतः कैश्चिद् धात्वर्थस्य विचारणे । फलेनैव विशिष्टे हि व्यापारे शक्तिरिष्यते ॥ ११६ ॥
व्यापारोऽर्थो यथा विक्लि - त्त्यनुकूलः पचेर्मतः । पदार्थस्यैकदेशे च द्वितीयार्थान्वयादरः ॥११७॥
Jain Education International
For Private & Personal Use Only
ग्रन्थत्रयी
www.jainelibrary.org