________________
प्रतिष्ठातत्त्वम्
ततो मण्यादिसद्भावे, न दाहापादनं वरम् । वह्निकारणसत्त्वेऽपि, मण्यभावाद्यभावतः ॥९४॥ अभावस्यापि हेतुत्वं, यदुक्तं कुसुमाञ्जलौ । 'भावो यथा तथाऽभावः, कारणं कार्यवन्मतः' ॥१५॥ मतेऽस्मिन् कारणीभूताऽभावस्य प्रतियोगिता । प्रतिबन्धकता प्रोक्ता, मणेः साऽप्युपपद्यते ॥९६।। मणिमन्त्रादयो यद्वा, नैवात्र प्रतिबन्धकाः । किन्तु तेषां प्रयोक्तार-एवात्र प्रतिबन्धकाः ॥९७॥ सामग्रीविरहो ह्येव, प्रतिबन्धो यदाह च । 'प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः' ॥९८॥ उत्तेजकस्य सद्भावे, सत्यपि प्रतिबन्धके । अस्ति यद्दाहसम्भूति-स्तदप्यत्रोपपद्यते ॥१९॥ मणेरुतेजकाभाव-विशिष्टस्यैव सम्मता । प्रतिबन्धकता चात-स्तदभावस्य हेतुता ॥१००। तथा चोत्तेजको यत्र, मणिकालेऽस्ति तत्र च । विशेषणस्याभावेन, विशिष्टाभावसम्भवः ॥१०१॥ यत्र चोत्तेजको नास्ति, मणिश्चापि न तत्र च । विशिष्टाभावसद्भावो, विशेष्याभावतो मतः ॥१०२।। यत्रोत्तेजकसद्भावो-मणेनैव च सम्भवः । तत्राऽभावद्वयाधीनो विशिष्टाभाव इष्यते ॥१०३॥ यत्र तूत्तेजकाभावो-विद्यते, विद्यते मणिः । तत्र सत्त्वाद्विशिष्टस्य नैव दाहस्य सम्भवः ॥१०४॥ शक्तेरनादरेऽप्येवं, सर्वत्रोक्तस्थलेष्वपि । दाहस्योत्पत्त्यनुत्पत्ती, घटेते एव युक्तितः ॥१०५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org