________________
ग्रन्थत्रयी
चतुःक्षणावस्थायित्व-मेवं सर्वत्र कर्मणः । . न्यायशास्त्रेषु सङ्गीतं, ततस्तद्ध्वंस एव च ॥८२॥ एवमत्रापि संबोध्यं, प्रतिष्ठात्मककर्मणः चतुःक्षणावस्थायित्व-मेव न त्वधिका स्थितिः ॥ प्रतिष्ठानन्तरं तत्तद्-ध्वंस एवावशिष्यते । साधनन्तः स बिम्बेषु, पूज्यतायाः प्रयोजकः ॥८४|| विभागजविभागाङ्गी-कारपक्षावलम्बिनाम् । यद्यप्यस्ति क्रियासत्ता, पञ्चमादिक्षणेष्वपि ॥८५॥ तथापि कर्ममात्रैक-जन्यत्वाश्रयणं खलु । विभागस्य कृतं चात्र, प्रागुक्तं सम्यगेव तत् ॥८६॥ प्रतिष्ठाध्वंससत्त्वेऽप्य-स्पृश्यस्पर्शादिसम्भवे । कथं भवेदपूज्यत्वं, नन्वेवं प्रतिमादिषु ॥८७॥ इति चेत् केवलस्यैव, ध्वंसस्याय॑त्वहेतुता । नैव किन्तु विशिष्टस्य, तस्य सा सम्मता यतः ॥८८॥ यावदस्पृश्यसंस्पर्शा-भावेन सहितः खलु । हेतुव॑सः प्रतिष्ठाया-स्तत्कालीनोऽत्र सम्मतः ॥८९॥ अभावः प्रागभावोऽत्रा-त्यन्ताभावोऽथवा क्वचित् । विज्ञेयोऽनादिसंसर्गा-भावरूपो न चाऽपरः ॥१०॥ इत्थञ्चैव विशिष्टस्या-भावान् मूर्तिषु नाच॑ता । प्रतिष्ठाध्वंससत्त्वेऽप्य-स्पृश्यसंस्पर्शने सति ॥९१॥ एवञ्च शक्तिपक्षोऽपि, निहतोऽत्र हि सर्वथा । युज्यते शक्त्यभावेऽपि, मूर्तावर्च्यत्वभावना ॥१२॥ तथा दाहस्थले चापि, शक्ति वोपपद्यते । यतो मण्याद्यभावस्य, वह्निवद्धेतुता मता ॥९३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org