________________
प्रतिष्ठातत्त्वम्
यत्तद्वदात्मसंयोगा-श्रयस्य स्यात्प्रपूज्यता ।। प्रतिमादेविशेषोऽपि, बोध्यः संयोगमाश्रितः ॥७०॥ ततः स्यान्नैव संयोगा-श्रयेऽप्यन्यत्र वस्तुनि । प्रतिमादिविभिन्ने हि, पूज्यभावः कदाचन ॥७१॥ अस्पृश्यानां च चाण्डाल-मुखानां स्पर्शतो ध्रुवम् । स्यादनभ्यर्च्यता तस्माद्, यतोऽदृष्टं विनश्यति ॥७२॥ मणिकारस्तु गङ्गेशो, नव्यनैयायिकाग्रणीः । ब्रूते ध्वंसं प्रतिष्ठायाः प्रतिमाऽर्च्यत्वकारणम् ॥७३॥ यतश्च विधिवाक्येन, पूजयेद्धि प्रतिष्ठितम् । इत्यनेन प्रतिष्ठाया हेतुत्वं नैव बोध्यते ॥७४॥ किन्त्वतीतप्रतिष्ठेऽत्र, पूज्यभावः प्रकाश्यते । यत्प्रतिष्ठितमित्येवं भूतार्थे क्तानुशासनम् ॥७५॥ तथा चात्र प्रतिष्ठाया ध्वंस एव प्रयोजकः । सम्यगुक्तः समईयां, प्रतिमायामवस्थितः ॥७६॥ शास्त्रोक्तविधिरूपाऽत्र, प्रतिष्ठा स्यात् क्रियात्मिका । नैयायिकमते सा च, चतुःक्षणविवर्तिनी ॥७७॥ नोदनश्चाभिघातश्च वेगश्चैव गुरुत्वकम् । द्रवत्वं चेति तच्छास्त्रे, कथिताः कर्महेतवः ॥७८॥ तेषामन्यतमे हेतौ, सत्यदृष्टेन संयुते । अन्यकारणसत्त्वे च, भवेदाधक्षणे क्रिया ॥७९॥ विभागः स्याद् द्वितीये च, क्षणेऽथो च तृतीयके । पूर्वसंयोगनाशः स्यात्, क्षणे तुरीयके तथा ॥८०॥ भवेच्चोत्तरदेशेन संयोगः कर्मनाशकः । ततश्च कर्मनाशः स्यात्-नियमात् पञ्चमे क्षणे ॥८१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org