________________
ग्रन्थत्रयी
तन्मतेऽपि प्रतिष्ठातो, विधितः प्रतिमादिषु । जायते प्रत्यभिज्ञानं, पूज्यत्वस्य नियामकम् ॥५८॥ पूर्वपूर्वार्चितेयं च, प्रतिमासु प्रतिष्ठिता । इत्यस्याः प्रत्यभिज्ञाया, विषयस्य हि पूज्यता ॥५९॥ आवश्यकं च तज्ज्ञानं, पूजयेन्नु प्रतिष्ठितम् । इत्यस्माद् बलवद्वाक्यात् प्रत्यभिज्ञात्मकं खलु ॥६०॥ अत एव च तज्ज्ञानाभावेऽर्चायां प्रवर्त्तनम् । पूजकानां भवेनैव, तदा पूजा हि निष्फला ॥६१॥ नन्वेवं पूज्यतैव स्यात्, प्रतिमादिषु सर्वदा । अस्पृश्यस्पर्शसत्त्वेऽपि, प्रत्यभिज्ञासमुद्भवात् ॥६२।। अस्पृश्यस्पर्शतज्ज्ञाने, यन्न तत्प्रतिबन्धके । तदभावावगाहित्वा-दिकं तत्रास्ति नो यतः ॥६३।। तदसत्, प्रत्यभिज्ञाने, याऽर्च्यतां प्रति हेतुता । अस्पृश्यस्पर्शनाभाव-विशिष्टे ह्येव सा मता ॥६४॥ तथा चाऽस्पृश्यजातीनां, मलिनानां भवेद्यदि । स्पर्शनं प्रतिमाद्यासु, स्यात्तदाऽनर्चनीयता ॥६५॥ प्रत्यभिज्ञानसत्त्वेऽपि, तस्य पूज्यत्वहेतुता । तादृशस्य विशिष्टस्य, ह्यभावान्न कदाचन ॥ ६६॥ सन्निधिप्रत्यभिज्ञान-द्वाराऽभ्यर्च्यत्वहेतुता । सम्यगुक्ता प्रतिष्ठाया एवं प्राचां मते मता ॥ ६७॥ तथा चोदयनो विद्वान् , यदाह कुसुमाञ्जलौ । देवताः सन्निधानेन, प्रत्यभिज्ञानतोऽपि वा ॥६८॥ अथोच्यते मतं नव्य-न्यायमार्गानुसारिणाम् । यजमानगतं तत्रा-पूर्वं प्रोक्तं प्रतिष्ठया ॥६९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org