SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठतत्त्वम् तुलादिविधिना शक्ति- राधेयाख्यैवमद्भुता । तुलादावपि विज्ञेया, विजयादिप्रयोजिका ॥ ४६ ॥ प्रतिमादावपीत्थञ्च सम्यग्भावपुरस्सरम् । प्रतिष्ठाविधिनाऽऽधेय-शक्तिरुत्पद्यते ध्रुवम् ॥४७॥ अद्भुताऽतिशयात्मा सा, पूज्यत्वस्य नियामिका । अस्पृश्यश्वपचादीनां, स्पर्शे मूर्ती विनश्यति ॥४८॥ मीमांसकमते चैवं, सम्यग्रीत्या विभाविता । प्रतिमादौ प्रतिष्ठादेः पूज्यत्वादिविचारणा ॥४९॥ .. नैयायिकमते देव - सन्निधिरभ्युपेयते । प्रतिष्ठाविधिना देव-प्रतिमायां फलप्रदः ॥५०॥ अहङ्कारो ममत्वं च, सन्निधिरत्र कथ्यते । अहङ्कारश्च मूर्त्यादा-वहं हीयमितीरितः ॥५१॥ ममायं देह इत्येवं, ममत्वं च प्रकीर्तितम् । यथा नृपस्य चित्रे धी-निजसादृश्यदर्शिनः ॥५२॥ द्विप्रकारोऽप्ययं बोध - आहार्यभ्रम उच्यते । विशेषदर्शनेऽप्यस्या-सम्भवो यन्न शङ्क्यते ॥ ५३॥ अनेन सन्निधानेन, गच्छन्त्याराधनीयताम् । रुद्रोपेन्द्रमहेन्द्राद्या मानिनः सकलाः सुराः ॥५४॥ अस्पृश्यानां च चाण्डाल - मुखानां स्पर्शने सति । समवाप्नोत्यपूज्यत्वं, मूर्तिः सन्निधिनाशतः ॥ ५५ ॥ देवताचेतनापक्ष-मालम्ब्येयं व्यवस्थिति: । सम्प्रणीताखिलापीय-मन्यां चेमां निबोधत ॥५६॥ देवतानामचैतन्य - वादिनां मतमाश्रिता । प्रक्रियाऽऽख्यायते मूर्ती, पूज्यापूज्यत्वबोधिका ॥५७॥ Jain Education International For Private & Personal Use Only S www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy