________________
ग्रन्थत्रयी
द्विप्रकारा च सा शक्ति-नित्यानित्येतिभेदतः । नित्ये नित्या च शक्तिः साऽनित्याऽनित्ये व्यवस्थिता ॥ तत्राऽनित्या भवेद्भाव-हेतुजाऽत्र यदाह च । नित्ये नित्यैव सा शक्ति-रनित्ये भावहेतुजा ॥३५॥ एषा चैवोच्यते शक्ति-विद्वद्भिः सहजाभिधा । अण्वादौ च तथाऽग्न्यादौ, सहजा शक्तिरीरिता ॥३६॥ एवमागन्तुकैरन्या, सहकारिभिरद्भुता । योत्पद्यतेऽत्र सा शक्ति-राधेयाख्योदिता बुधैः ॥३७॥ या व्रीहीन् प्रोक्षतीत्यस्मा-दपूर्वविधिवाक्यतः । क्रिया प्रोक्षणरूपा च, विहिता व्रीहिकमिका ॥३८॥ तज्जन्योऽतिशयः कश्चित्, कालान्तरीयकार्यकृत् । भावभूतोऽभ्युपेयः स, व्रीहिनिष्ठश्च निश्चितम् ॥३९॥ अन्यथा तु कथं व्रीही-नवहन्तीति वाक्यतः । नियमात्प्रोक्षितेष्वेवा-वघातः क्रियते ननु ॥४०॥ कालान्तरेऽवघातादौ, बोधिते नियमाद्विधेः । व्रीहेर्हि प्रोक्षितस्यैव, विनियोगः कृतो बुधैः ॥४१॥ इत्थं च प्रोक्षणोद्भूता, व्रीहावतिशयात्मिका । आधेयाख्या मता शक्ति-र्मीमांसामांसलैर्बुधैः ॥४२॥ परैस्त्वात्मगतोऽपूर्वा-त्मकश्चातिशयो मतः । प्रोक्षणादिकसम्भूत-स्तन्न युक्तिसहं खलु ॥४३॥ यद् व्रीहीन् प्रोक्षतीत्यत्र, द्वितीयाश्रुतिरस्ति या । तया प्रोक्षणकर्मत्वं, व्रीहेरेवावगम्यते ॥४४॥ तत्तु प्रोक्षणजन्येष्ट-फलशालित्वमामतम् । स्वीकृतेऽतिशये व्रीहौ, घटते तच्च नाऽन्यथा ॥४५||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org