________________
३
प्रतिष्ठतत्त्वम्
सहजा शक्तिरेका स्या-दाधेयाख्या तथाऽपरा । कार्येणैवानुमेया सा, व्यतिरेकमुखेन हि ॥२२॥ यादृशादेव हस्ताग्न्योः, संयोगाज्जायतेतराम् । दाहो नो तादृशादेव, मणिमन्त्रादिसंयुतौ ॥२३॥ तथा च हेतुसत्त्वेऽपि, सतीह प्रतिबन्धके । यदभावाद्भवेद्दाहा-भावः सा शक्तिरीरिता ॥२४॥ न चाऽदृष्टस्य वैगुण्यं, तत्र वाच्यं प्रयोजकम् । दृष्टसागुण्यसत्त्वे हि, तद्वैगुण्यमसम्भवि ॥२५।। तथा मण्यादिना तत्र, तच्छक्तिः प्रतिबध्यते ।। तेन वयादिसत्त्वेऽपि, दाहकार्य भवेन वै ॥ २६॥ प्रतिबन्धकताऽप्येवं, मण्यादेरुपपद्यते । . वह्यादौ दाहहेतूनां, शक्तीनां प्रतिबन्धनात् ॥२७॥ अन्यथा नोपपद्येत, प्रतिबन्धमकुर्वति । प्रतिबन्धकताऽप्यत्र, मण्यादौ सर्वसम्मता ॥२८॥ नन्वत्र हेतुता वाच्या, मण्यभावस्य वह्निवत् । तथा च मणिसत्तायां, दाहो नो हेत्वभावतः ॥२९॥ इति चेनैव, भावत्व-व्याप्या हि हेतुता मता । विधिरूपेण तुच्छत्वा-न्नाऽभावः कारणं ततः ॥३०॥ एवं शक्तौ च सिद्धायां, दाहादाहव्यवस्थितिः । मणिसत्त्वेन दाहः स्याद् वह्निशक्तेर्निरोधनात् ॥३१॥ तदभावे पुनर्दाहः, स्यादथोत्तेजकेऽपि वा । वह्वेश्च शक्तिमात्त्वेन, बोध्यैवं दाहहेतुता ॥३२॥ एवं सर्वत्र विज्ञेया, कलशादिषु लाघवात् । दण्डादीनां तथैवैक-शक्तिमत्त्वेन हेतुता ॥३३॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org