________________
पर्युषणातिथिविनिश्चयः ॥
१४३ द्विकर्ममासापेक्षस्त-द्भवेहतुमृतुं प्रति ।
अहोरात्रः समधिक-चतुर्मास्यां तु तद्वयम् ॥ वर्षाशीतोष्णकालेषु चतुर्मासमितेषु यत् । अधिरात्रं भवेत् पर्व तृतीयमथ सप्तमम् ॥ तथोक्तं ज्योतिष्करण्डे - तइयंमि य कायव्वं अइरतं सत्तमे य पव्वंमि । वासहिमगिम्हकाले चउचउमासे विहीयते ॥
श्रावणो मार्गशीर्षश्च चैत्रश्चेति यथाक्रमम् ।
वर्षाशीतोष्णकालाना-मादिमासाः प्रकीर्तिताः ॥ सूर्यर्तुपूर्तिसमये कर्ममासव्यपेक्षया । अहोरात्रः समधिकः स्यादेकैक इति स्फुटम् ॥
आषाढे च भाद्रपदे कार्तिके पौष एव च ।
___फाल्गुने माधवे चाति-रात्रं नान्येषु कहिचित् ॥' इत्यष्टाविंशतितमे सर्गे।
अत्र सर्वत्राऽपि यथाऽवमरात्रप्रकरणे क्षीणतिथीनां नामग्राहमुपदर्शनं न तथाऽतिरात्रप्रकरणे वृद्धतिथीनां वापि नामग्राहमुपदर्शनमित्यपि बोध्यम् ।
अत्र यदि टिप्पनककरणोपयोगिसम्पूर्णप्रक्रियाप्रतिपादकस्य सिद्धान्तविभागस्याऽधुनाऽनुपलम्भ एव, तत्र चाऽवश्यं तिथिवृद्धिप्रतिपादनमपि भविष्यतीति विभाव्यते, तदा तत्र क्षयदिनस्य तिथित्रयस्पर्शित्वप्रतिपादनमपि कथं न भविष्यति ? इत्यपि विभावनीयमेवेति । सिद्धान्तेऽतिरात्रप्रतिपादनमस्तीत्येतावतैव तिथिवृद्धिरस्तीति कथनमनुचितमेवेति । तथा च सिद्धान्तेऽतिरात्रकल्पनासत्त्वेऽपि तिथिवृद्धेरभावात्, 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरे तिवचनस्य टिप्पनकानुसारितिथिक्षय-तिथिवृद्धिविषयकत्वमेव निर्वावादमुपपन्नमिति क्षीणतिथौ टिप्पनकानुसारेणोत्तरतिथिविद्धत्वस्यापि सत्वेन तद्व्यवच्छेदफलाभावाद् युक्तमेव 'यत्त्विति पक्षस्याऽयुक्तत्वम् ।
___ एवं पूर्वविद्धाया अपि क्षीणतिथेरहोरात्रव्यापित्वाऽव्यापित्वाभ्यामपि विरोधो बोध्यः । तस्या अहोरात्रव्यापित्वाऽस्वीकारे प्रागुपदर्शिताहोरात्रव्यापितत्तत्तिथिनिमित्तकपौषधादिनियमस्य तत्र दिने क्षीणतत्तत्तिथिव्यपदेशस्य चाऽनुपपत्तेः । अन्यथा, 'आदित्योदयवेलाया'मित्यस्यैव वैयापत्तेः । तस्याहोरात्रव्यापित्वस्वीकारे तु तत्राऽऽरोपस्वीकारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org