________________
१४२
ग्रन्थत्रयी 'ब्रूमः षण्णामथतूनां स्वरूपं किञ्चिदागमात् । सूर्यसम्बन्धिनस्ते स्यु-श्चन्द्रसम्बन्धिनोऽपि च ॥
. सार्धास्त्रिंशदहोरात्रा एको मासो विवस्वतः ।
ताभ्यां द्वाभ्यामहोरात्रा एकषष्टिर्ऋतू रवेः ॥ ऋतुः प्रावृड्भवेदाद्यो वर्षारात्रो द्वितीयकः । शरदाख्यस्तृतीयः स्या-तुर्यो हेमन्तसंज्ञकः ॥
वसन्तः पञ्चमः ख्यातः षष्ठो ग्रीष्मः प्रकीर्तितः ।
षडेते ऋतवः ख्याता युगे त्रिंशद्भवन्ति ते ॥ उक्तं च ज्योतिष्करण्डके - पाउसवासारत्तो सरओ हेमंत-वसंत-गिम्हा य । एए खलु छप्पि उऊ जिणवरदिट्ठा मए सिट्ठा ।।
प्रथमाषाढराकायाः प्रारभ्यैषामुपक्रमः ।
__ भवन्ति त्रिंशतैभिश्च यथोक्ता युगवासराः ॥ द्वावाषाढौ युगान्ते स्तस्तत्राद्यस्य सितत्विषि । चतुर्दश्यां प्राग्युगर्तुः पूर्णस्त्रिंशत्तमो भवेत् ॥
ततस्तस्यैव राकायां युगस्याभिनवस्य तु । - ऋतुराधो लगेद्भाद्र-स्यायेऽसौ पूर्यते तिथौ ॥ आद्याषाढस्यैकदिनं विंशत्त्रिंशद्दिनात्मकौ । द्वितीयाषाढनभसौ भाद्रस्यैकं दिनं ततः ॥
स्युषष्टिरेभ्य एकोऽवमरात्रो निपात्यते ।
एकषष्टिदिनात्मेति सूयर्तुः प्रथमो युगे । एकषष्टिस्त्रिंशता च गुण्या सर्वर्तुसङ्ख्यया । अष्टादशशतास्त्रिंशा एवं स्युर्युगवासराः ॥
कर्ममासात् सूर्यमासे-ऽहोराबाधं यदेधते ।
ऋतौ द्विभानुमासोत्थे-ऽहोरात्रो वर्धते ततः ॥ ततश्च- कर्ममासद्वये षष्टि-रहोरात्रा भवन्ति वै ।
सूर्यमासद्वयात्मर्तु-स्त्वेकषष्टिदिनात्मकः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org