________________
पर्युषणातिथिविनिश्चयः ॥
युगान्त्यार्धे पञ्चदश मासाः सावमरात्रकाः ।
तिथयस्त्ववमाः कृष्ण-शुक्लाः पूर्वार्धवत्स्मृताः ॥ ननु कालः सदाऽनादि-प्रवाहः परिवर्तते । जगत्स्वभावानियत-स्वरूपेण दिवानिशम् ॥
न हानिः कापि कालस्य न च वृद्धिः स्वरूपतः ।
ततोऽत्रावमरात्राधि-मासादीनां कथा वृथा । सत्यं किन्त्विह मासानां विरूपाणां परस्परम् । अंशादिभिर्विशेषो यो वर्तते तदपेक्षया ॥
विवक्ष्येते हानिवृद्धी कालस्य न तु वास्तवी ।
वस्तुतस्त्वेष नियत-स्वरूपः परिवर्तते ॥ तथा हि- चन्द्रमासविवक्षायां कर्ममासव्यपेक्षया ।
कालस्य हानिर्वृद्धिश्च सूर्यमासविवक्षणे ॥
पृथक् पृथग् विवर्तन्ते वस्तुतस्तु त्रयोऽप्यमी ।
मासा अनादिनियत-स्वरूपेण सदा भुवि ॥' इत्यशाविंशतितमे सर्गे । इति ।। न चैवं तिथिवृद्धिस्वरूपप्रतिपादनं सिद्धान्ते दृश्यते इति बोध्यम् ।
ननु, सिद्धान्ते यथाऽवमरात्रप्रतिपादनं तथाऽतिरात्रप्रतिपादनमप्यस्त्येव । यदुक्तं श्रीस्थानाङ्गसूत्रे-'छ ओमरत्ता पण्णत्ता । तं जहा-ततिए पव्वे, सत्तमे पव्वे, एक्कारसमे पव्वे, पण्णरसमे पव्वे, एगुणवीसमे पव्वे, तेवीसमे पव्वे इति । छ अतिरत्ता पण्णत्ता। तं जहा-चउत्थे पव्वे, अट्ठमे पव्वे, दुवालसमे पव्वे, सोलसमे पव्वे, वीसइमे पव्वे, चउवीसमे पव्वे इति ।' तथा च कथं न तिथिक्षयवत् सिद्धान्ते तिथिवृद्धिरपीति चेत् ।
न । अतिरात्रकल्पनायाः कर्ममासमपेक्ष्य सूर्यमासचिन्तायामेव सम्भवेन तत्र तिथिवृद्धरसम्भवात् । तिथीनां सूर्योत्पन्नत्वाभावात् । अवमरात्रसम्भवस्य च कर्ममासमपेक्ष्य चन्द्रमासचिन्तायां सत्त्वेन तिथीनां चन्द्रोत्पन्नत्वेन च तत्र तिथिक्षयस्यावश्यंभावित्वात् । यदुक्तं सूर्यप्रज्ञप्त्यादौ -
'यत्त्विदमवमरावातिरात्रप्रतिपादनं तत्परस्परं मासचिन्तापेक्षया । तथा हि - कर्ममासमपेक्ष्य चन्द्रमासचिन्तायामवमरात्रस्य सम्भवः । कर्ममासमपेक्ष्य सूर्यमासचिन्तायामतिरात्रकल्पनेति ।' लोकप्रकाशेऽप्युक्तम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org