________________
१४४
ग्रन्थत्रयी ऽऽवश्यकत्वेनाऽहोरात्रव्यापित्वनियतौदयिकत्वस्यापि तत्राऽवश्यं स्वीकार्यत्वेन चौदयिकत्वेनैव प्रामाण्यसम्भवेन पूर्वविद्धत्वेन प्रामाण्यकल्पनाया अपि तत्र निरवकाशत्वादिति ।
न च तत्र पूर्वस्यां तिथावौदयिकत्वं वर्तते, न तूत्तरस्यां तिथाविति पूर्वविद्धत्वेन प्रामाण्यकल्पनं तत्र क्षीणतिथावौदयिकत्वलाभायैवेति चेत् ।
तथा सति प्रकारान्तरेणाऽस्मदुपदर्शितमेव पन्थानमाश्रितो भवान् । अस्माभिरपि क्षीणतिथावौदयिकत्वलाभायैव तत्पूर्वस्यामौदयिक्यां तिथौ तत्क्षीणतिथ्यभेदाध्यारोपस्य साधितत्वादिति ।
अत्रेदं बोध्यम्-तिथेः क्षयो नाऽप्राप्ताऽऽत्मस्वरूपत्वम्, असम्भवात् । किन्तु, सत्वे सति सूर्योदयऽस्पर्शित्वमेव । सूर्योदयस्पर्शित्वमेव च तिथावौदयिकत्वं तदेव च तिथावक्षीणत्वमिति । तथा च चतुर्दश्यादिपर्वतिथेः क्षये सूर्योदयाऽस्पर्शित्वरूपौदियकत्वाऽभावे तदाराधनायां तत्र तल्लभाय तत्र दिने पूर्वैव तिथिरौदयिकी त्रयोदश्यादितिथि: चतुर्दश्यादितिथित्वेन प्रमाणीकार्येति सिद्धम् ।
इत्थमेव चास्य 'क्षये पूर्वा तिथिः कार्ये'ति विधिवचनस्य सार्थक्यम् । प्रमाणान्तरेणाऽप्राप्तस्यार्थस्य प्रापणे ह्येव विधिवचनस्य सार्थक्यमिति बोध्यम् ।
____ एवं च चतुर्दशीक्षये तत्र दिने तत्पूर्वोदयिकी त्रयोदश्येव चतुर्दशीत्वेन मन्तव्येति चतुर्दश्येवौदयिकी जाता । सैव चाऽहोरात्रव्यापित्वेन मन्तव्या । सैव च तत्र दिने आराध्या व्यपदेश्या चेत्यौदयिकचतुर्दश्यामेव चतुर्दश्याराधनायाः करणान्नाऽऽज्ञाभङ्गादिदोषापत्तिलेशोऽपीति । इत्थमेव द्वितीयादिपर्वतिथिक्षयेऽपि बोध्यम्।
तथा हि-टिप्पनके द्वितीयायाः क्षये औदयिकत्वाऽभावे तदाराधनायां तल्लभाय तत्पूर्वीदयिकी प्रतिपदेव तत्र दिने द्वितीयात्वेन प्रमाणीकार्येति द्वितीयैवौदयिकी, सैव चाऽहोरात्रव्यापिनी, सैव चाऽऽराध्या, सैव च व्यपदेश्या तत्र दिने । एवमेव च टिप्पनके पञ्चम्यादिपर्वतिथिक्षयेऽपि बोध्यम् ।
इत्थमेव च टिप्पनके चतुर्दश्यादिक्षये तत्पूर्वोदयिक्यास्त्रयोदश्यादितिथेश्चतुदश्यादिपर्वतिथित्वेनाऽऽराधनायां प्रमाणतया मन्तव्यत्वे सिद्ध औदयिक्यामेव त्रयोदश्यादि तिथौ चतुर्दश्यादितिथ्यभेदाध्यारोपाच्चतुर्दश्यादितिथिरेव तत्रौदयिकी प्राप्ता । त्रयोदश्यादितिथिस्तु तत्र दिने टिप्पनके वर्तमानाऽप्यसत्येव जाता । आराधनायां 'क्षये पूर्वे'ति वचनेन तस्याश्चतुर्दश्यादिरूपेणैव प्रमाणतया गणनीयत्वात् । पूर्वदिने च या त्रयोदश्यादितिथिः सा च सर्वथा सूर्योदयाऽस्पर्शित्वेनाऽनौदयिक्येव । पूर्वदिने द्वादश्या एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org