________________
૩૫
अनिवारयतो व्यजना - दिना च ताननपगच्छतः स्थानात् । यत्तत्पीडासहनं दंशपरीषहजयः स मुनेः ॥ २० ॥ प्रज्ञाज्ञाने चाद्ये परीपहावष्टमे त्वलाभोत्थः । कर्मणि चतुर्दशैते छद्मस्थानामरागाणाम् ॥ २१ ॥ नहि सूक्ष्मसम्पराये परीपहाः केsपि मोहनीयभवाः । इत्ययमरागमध्ये ग्राह्यो लोभांशसवेऽपि ॥२२॥ तत्राङ्गपूर्वतर्क-व्याकरणाध्यात्मशास्त्रनिपुणस्य | भानीवार्कस्य पुरो मम सर्वे निःप्रभा अन्ये ॥ २३ ॥ इत्यस्य ज्ञानमद - स्याऽधिकपुरुषोनताधिया दलनम् । प्रज्ञापरीपहजयः साधारध्यात्मशुद्धस्य ||२४|| सहमानोऽप्याक्षेपं योऽज्ञोऽपि सुदुः करे रतस्तपसि । ज्ञानफलेऽविचिकित्सः सोऽज्ञानपरीषह ( हैं ) जयः (जयति) || २५॥ योsलाभेऽपि न दीनो लाभादपि वरमलाभमेव तपः । ध्यायति निरुत्सुकमतिः सोऽलाभपरीषहं जयति ॥ २६ ॥ अष्ट निपद्या याच्या कोशावरविवेशा च नग्नत्वम् । सत्कारोऽदर्शनमिति मोहाद रागिव्वखिलसत्ता ( : ) ॥२७॥ भय - मान - क्रोधाsरति - वेद - जुगुप्साश्च लोभ- हग़मोहौ । क्रमतोsट हेतवोsमी प्रो काष्ट (?) परीषहोत्पत्तौ ॥२८॥ अनुतिष्ठन्निजनियमं शून्यागारस्मशानशैलादौ । अभयो भैरवशब्दाद् भवति निषद्यापरीपहजित् ॥ २९ ॥ निषीदन्त्यस्यामिति च्युतप्ता (त्पत्त्या) निपद्याशब्देनोपाश्रयो गृह्यते ॥ विधिनैव वा (या) चमान - स्तपोरतो दीनतादिपरिहारी । यो लाघवमदसोढा स भवति याच्ञापरीषहजित् ॥३०॥ श्रृण्वन् प्रभुरपि मिथ्यादृशामवज्ञावचांस्यतिकटुनि । htriantrकलय - नाक्रोशपरीषहं जयति ॥३१॥
1
१. “ प्रोक्तास्तत्परिषहोत्पत्तों " इत्येव यदि कल्प्यते, तदा सम्यक
स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org