________________
38
विषमक्षेत्रादिकृता-मरति सूत्रोपदेशतो निघ्नन् । धर्मारामरतः सन् मुनिररतिपरीपहे (इं?) जयति ॥३२॥ एकान्ते नवयौवन-मदिरामदघूर्णमाननयनासु । दोमू लदर्शनोल्लस-दुन्नतकुचकलशलीलासु ॥३३॥ अशुचीनां पिण्डोऽसा-विति निर्मलभावनां दधत् कवचम् । विफलयति यः स्मरशरान् स संवृतः स्वीपरीषहजित् ॥३४॥ वासोभिरसर्वतनु-प्रावरणैरल्पमूल्यपरिजीणैः । नाग्न्यपरीपहसहनं भवति ममत्वोज्झितमुनीनाम् ।।३५।। नन्वेवमौपचारिक-नाग्न्यात् तादृक् परीषहजयोऽपि ? । न, क्षुत्परीषहजयो-पमयाऽकल्प्याऽग्रहेऽदोषात् ।।३६।। सत्कारो वस्त्राद्यै-नतिप्रशंसादिना पुरस्कारः । तदकरणे दुःप्रणिधानवर्जकस्तत्परीषहजित् ।।३७।। पापस्थानेभ्योऽहं विरतो निस्सङ्गमार्गचारी च । तदपि सुरनारकादीन् न प्रेक्षे पुण्यपापभुजः ॥३८।। तत् प्राचामतिशयगी-बूथेति दर्शनपरीषहो भावः । अशुभो भवेत् प्रदेशो-दितमिथ्यात्वप्रभावेन(ण) ॥३९॥ सोढयो(व्यो)ऽसौ नेहा-ऽभ्यायान्ति सुधाभुजः परमसुखिनः । जिन-गणधरादिविरहात् कार्याऽभावान्मनुजलोके ॥४०॥ प्राकृतदुरितनिगडिता निरन्तरं तीव्रवेदनाग्रस्ताः । गमनागमनाशक्ता न नारका अपि समायान्ति ॥४१॥ न च दुःखमानुभावात् संहननतपोषिशेषवैकल्यात् । ज्ञानातिशयोऽस्त्यधुना स्थानस्थान् येन तान् पश्येत् ॥४२॥ प्राचां तूत्तमशक्तिः संहनन-तपो-धृतिप्रकर्षेण । आसीत् सर्व तेषां घटमानं तदितिभावनया ।।३।। इति श्रेयः ।।
समाप्तमिदं बन्धहेतुभङ्गप्रकरणम् ।। श्रीः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org