________________
उ४
पतति महत्यपि शीते त्यक्त्वाऽकल्प्यांशुकः समयविधिना। कल्प्याम्बरपरिभोगी खगवदक्लप्तालयविशेषः ।।७।। शीताभि[नि] संपी(पा)ते-ऽप्यनभीप्सिततत्प्रतिक्रियोपायः । संसहते यच्छीतं शीतपरीषहजयः स मतः ।।८॥ खरविषमकर्क रेषु क्षितिप्रदेशेषु सुमृदुपट्टे वा।। निद्रा विधिनाऽनुभव-नोपेत्यरति रतिं वा यत् ।।९।। शय्यापरीपहजयः स मुनेच प्रतिक्रियाचरणम् । रोमेऽपि समयविधिना रोगपरीषहजयः स मतः ॥१०॥ प्राक्तनकर्मफलमिदं नैष तपस्वी करोति मे किमपि । बाध्यमनेन शरीरं न तु दर्शनदृवचरित्राणि ।।११।। इति वधकेऽप्यविकृतथी-निहन्यमानोऽपि मुद्गरशराद्यैः। समतां बिभर्ति यो वध-परीपहस्तेन विजितः स्यात् ।।१२।। गच्छस्य तदितराणां परिभोगो ह्यशुषिरस्य दीदः । समनुज्ञातस्तदुपरि शेते संस्तीर्य यो विधिना ॥१३॥ आस्तीर्य तृणं वा य-चौरहतोपकरणे(णो) मुनिः शेते । तस्य तृणस्पर्शपरी-पहविजयस्तदधिसहनेन ॥१४॥ निःसङ्गस्य पवनवत् परिभावितबन्धमोक्षतत्वस्य । नवकल्पविहारकृतो विरुद्धमार्गच परिहरतः ॥१५॥ यत्कण्टकादिदुःखे-ऽप्यस्मरणं यानवाहनादीनाम् । चर्यापरीषहजयः स मुनेः संयमरथस्थस्य ॥१६॥ आमरणादस्नान-व्रतभाजः स्वेदवलितमलराशेः । यन्मलपीडासहनं तदपनयननिर्विकल्पस्य ॥१७॥ स मलपरीषहविजयः कर्ममलापनयनाय बद्धमतेः । दर्शन-मो(?)बोध-चरित्रा-मलसलिलस्नानशुद्धस्य ॥१८॥ दंशग्रहणं घातक-सत्त्वसमूहोपलक्षणं तेन । दंशमशकादिदंशे-ऽप्यकुर्वतस्तद्वपुर्वाधाम् ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org