SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ (२४) शास्त्राष्टकम् चर्मचक्षुभृतः सर्वे देवादावधिचक्षुषः । सर्वतद्रक्षुषः सिद्धाः, साधवः शास्त्रचक्षुषः ।।१।। पुर:स्थितानिवोधिस्तिर्यग्लोकविवर्तिनः । सर्वान् भावानवेक्षन्ते, ज्ञानिन: शास्त्रचक्षुषा ।।२।। शासनात् त्राणशक्तेश्च बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्य, तत्तु नान्यस्य कस्यचित् ।।३।। शास्त्रे पुरस्कृते तस्माद्, वीतराग: पुरस्कृत: । पुरस्कृते पुनस्तस्मिन्, नियमात् सर्वसिद्धयः ।।४।। अदृष्टार्थेऽनुधावन्तः, शास्त्रदीपं विना जडाः । प्राप्नुवन्ति परं खेदं, प्रस्खलन्त: पदे पदे ।।५।। शुद्धोछाद्यपि शास्त्राज्ञानिरपेक्षस्य नो हितम् । भौतहन्तुर्यथा तस्य, पदस्पर्शनिवारणम् ।।६।। अज्ञानाहिमहामन्त्रं, स्वाच्छन्द्यज्वरलङ्घनम् । धर्मारामसुधाकुल्यां, शास्त्रमाहुर्महर्षयः ।।७।। शास्त्रोक्ताचारकर्ता च, शास्त्रज्ञः शास्त्रदेशकः । शास्त्रैकदृग महायोगी, प्राप्नोति परमं पदम् ।।८।। જ્ઞાનસારનું તત્ત્વદર્શન 166 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy