________________
(१३) मौनाष्टकम्
मन्यते या जगत्तत्त्व, स मुनिः परिकीर्तितः । सम्यकत्वमेव तन्मौनं, मौनं सम्यकत्वमेव वा ।।१।।
आत्माऽऽत्मन्येव यच्छुद्धं, जानात्यात्मानमात्मना । सेयं रत्नत्रये ज्ञप्तिरूच्याचारिकता मुनेः ॥२॥
1
चारित्रमात्मचरणाद्, ज्ञानं वा दर्शनं मुनेः । शुद्धज्ञाननये साध्यं क्रियालाभात क्रियानये || ३ ||
यतः प्रवृत्तिर्न मणौ लभ्यते वा न तत्फलम् । अतात्त्विकी मणिज्ञप्तिर्मणिश्रद्धा च सा यथा ||४ ||
तथा यतो न शुद्धात्मस्वभावाचरणं भवेत् । फलं दोषनिवृत्तिर्वा न तज्ज्ञानं न दर्शनम् ||५||
यथा शोफस्य पुष्टत्वं, यथा वा वध्यमण्डनम् । तथा जानन् भवोन्मादमात्मतृप्तो मुनिर्भवेत् ।।६।।
सुलभं वागनुच्चारं, मौनमेकेन्द्रियेष्वपि 1 पुद्गलेष्वप्रवृत्तिस्तु, 'योगांना मौनमुत्तमम् ।।७।।
ज्योतिर्मयीव दीपस्य, क्रिया सर्वाऽपि चिन्मयी । यस्यानन्यस्वभावस्य तस्य मौनमनुत्तरम्
Jain Education International
1
‘જ્ઞાનસાર અષ્ટક' – મૂળ શ્લોકો
155
For Private & Personal Use Only
।।८।।
www.jainelibrary.org