________________
(१०) तृप्त्यष्टकम्
पीत्वा ज्ञानामृतं भुक्त्वा, क्रियासुरलताफलम् । साम्यताम्बूलमास्वाद्य, तृप्तिं यान्ति परां मुनिः ।।१।।
स्वगुणैरेव तृप्तिश्चेदाकालमविनश्वरी । ज्ञानिनो विषयैः किं, तैर्यैर्भवेत्तृप्तिरित्वरी ।।२।।
या शान्तैकरसास्वादाद, भवेत् तृप्तिरतीन्द्रिया । सा न जिह्वेन्द्रियद्वारा, षड्रसास्वादनादपि ।।३।।
संसारे स्वप्नवन्मिथ्या, तृप्तिः स्यादाभिमानिकी । तथ्या तु भ्रान्तिशून्यस्य, साऽऽत्मवीर्यविपाककृत् ।।४।।
पुद्गलै: पुद्गलास्तृप्तिं, यान्त्यात्मा पुनरात्मना । परतृप्तिसमारोपो, ज्ञानिनस्तन्न युज्यते ।।५।।
मधुराज्यमहाशाकाग्राह्ये बाह्ये च गोरसात् । परब्रह्मणि तृप्तिर्या, जनास्तां जानतेऽपि न ।।६।।
विषयोर्मिविषोद्गारः स्यादतृप्तस्य पुद्गलैः ।। ज्ञानतृप्तस्य तु ध्यानसुधोद्गारपरम्परा ।।७।।
सुखिनो विषयातृप्ता, नेन्द्रोपेन्द्रादयोऽप्यहो । भिक्षुरेकः सुखी लोके, ज्ञानतृप्तो निरञ्जनः ।।८।।
જ્ઞાનસારનું તત્ત્વદર્શન
152
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org