________________
(९) क्रियाष्टकम्
ज्ञानी क्रियापर: शान्तो, भावितात्मा जितेन्द्रियः । स्वयं तीर्णो भवाम्भोधेः, परांस्तारयितुं क्षमः ।।१।।
क्रियाविरहितं हन्त, ज्ञानमात्रमनर्थकम् । गतिं विना पथज्ञोऽपि, नाप्नोति पुरमीप्सितम् ।।२।।
स्वानुकूलां क्रियां काले, ज्ञानपूर्णोऽप्यपेक्षते । प्रदीप: स्वप्रकाशोऽपि, तैलपूर्त्यादिकं यथा ।।३।।
बाह्यभावं पुरस्कृत्य, ये क्रियां व्यवहारतः । वदने कवलक्षेप, विना ते तृप्तिकाक्षिणः ।।४।।
गुणवबहुमानादेर्नित्यस्मृत्या च सत्क्रिया । जातं न पातयेद् भावमजातं जनयेदपि ।।५।।
क्षायोपशमिके भावे, या क्रिया क्रियते तया । पतितस्यापि तद्भावप्रवृद्धिर्जायते पुन: ।।६।।
गुणवृद्ध्यै तत: कुर्यात्, क्रियामस्खलनाय वा । एकं तु संयमस्थानं, जिनानामवतिष्ठते ।।७।।
वचोऽनुष्ठानतोऽसङ्गक्रियासंगतिमङ्गति । सेयं जानक्रियाऽभेदभूमिरानन्दपिच्छला ।।८।।
"शनसार अष्ट' – भूण दोओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org