________________
(८) त्यागाष्टकम्
संयतात्मा श्रये शुद्धोपयोगं पितरं निजम् । धृतिमम्बां च पितरौं, तन्मां विसृजतं ध्रुवम् ।।१।।
युष्माकं संगमोऽनादिर्बन्धवोऽनियतात्मनाम् । ध्रुवैकरूपान् शीलादिबन्धूनित्यधुना' 'श्रये ।।२।।
कान्ता मे समतैवैका, ज्ञातयो मे समक्रिया: । बाह्यवर्गमिति त्यक्त्वा, धर्मसंन्यासवान् भवेत् ।।३।।
धर्मास्त्याज्या: सुसंगोत्था:, क्षायोपशमिका अपि । प्राप्य चन्दनगन्धाभ, धर्मसंन्यासमुत्तमम् ।।४।।
-
प्राप्य
UTस्स
गुरुत्वं स्वस्य नोदेति शिक्षासात्म्येन यावता । आत्मतत्त्वप्रकाशेन, तावत्सेव्यो' 'गुरुत्तमः ।।५।।
"
र
ज्ञानाचारादयोऽपीष्टा:, शुद्धस्वस्वपदावधि । निर्विकल्पे पुनस्त्यागे, न विकल्पो न वा क्रिया ।।६।।
योगसंन्यासतस्त्यागी, योगानप्यनिलांस्त्यजेत् । इत्येवं निर्गुणं ब्रह्म, परोक्तमुपपद्यते ।।७।।
वस्तुतस्तु गुणैः पूर्णमनन्तैर्भासते स्वतः । रूपं त्यक्तात्मन: साधोर्निरभ्रस्य विधोरिव ।।८।।
જ્ઞાનસારનું તત્ત્વદર્શન ..., 150 . .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org