________________
(६) शमाष्टकम्
विकल्पविषयोत्तीर्णः, स्वभावालम्बन: सदा । ज्ञानस्य परिपाको यः, स शमः परिकीर्तितः ।।१।।
अनिच्छन् कर्मवैषम्यं, ब्रह्मांशेन समं जगत् । आत्माभेदेन य: पश्येदसौ मोक्षं गमी शमी ।।२।।
आरुरुक्षुर्मुनिर्योगं, श्रयेद् बाह्यक्रियामपि । योगारूढः शमादेव, शुध्यत्यन्तर्गतक्रियः ।।३।।
ध्यानवृष्टेर्दयानद्याः, शमपूरे प्रसर्पति । विकारतीरवृक्षाणां, मूलादुन्मूलनं भवेत् ।।४।।
ज्ञानध्यानतप:शीलसम्यक्त्वसहितोऽप्यहो । तं नाप्नोति गुणं साधुर्यमाप्नोति शमान्वितः ।।५।।
स्वयंभूरमणस्पर्द्धिवर्धिष्णुसमतारस: मुनिर्येनोपमीयेत कोऽपि नासौ चराचरे ।।६।।
शमसूक्तसुधासिक्तं, येषां नक्तंदिनं मनः । कदापि ते न दह्यन्ते, रागोरगविषोर्मिभिः ।।७।।
गर्जज्ज्ञानगजोत्तुङ्गरङ्गद्ध्यानतुरंगमाः जयन्ति मुनिराजस्य शमसाम्राज्यसंपदः ।।८।।
જ્ઞાનસારનું તત્ત્વદર્શન
___ 148
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org