________________
(३) स्थिरताष्टकम्
वत्स किं चञ्चलस्वान्तो, भ्रान्त्वा भ्रान्त्वा विषीदसि । निधिं स्वसन्निधावेव, स्थिरता दर्शयिष्यति ।। १ ।।
ज्ञानदुग्धं विनश्येत, लोभविक्षोभकूर्चकैः । अम्लद्रव्यादिवास्थैर्यादिति मत्वा स्थिरो भव ||२||
अस्थिरे हृदये चित्रा, वाङ्नेत्राकारगोपना । पुंश्चल्या इव कल्याणकारिणी न प्रकीर्तिता ||३||
अन्तर्गतं महाशल्यमस्थैर्यं यदि नोद्धृतम् । क्रियौषधस्य को दोषस्तदा गुणमयच्छतः ।।४।।
स्थिरता वाङ्मनःकायैर्येषामङ्गाङ्गितां गता 1 योगिनः समशीलास्ते, ग्रामेऽरण्ये दिवा निशि । । ५ । ।
स्थैर्यरत्नप्रदीपश्चेद्, दीप्रः संकल्पदीपजैः I तद्विकल्पैरलं धूमैरलं धूमैस्तथाऽऽस्रवैः ।।६।।
उदीरयिष्यसि स्वान्तादस्थैर्यं पवनं यदि 1 समाधेर्धर्ममेघस्य, घटां विघटयिष्यसि
1
चारित्रं स्थिरतारूपमतः सिद्धेष्वपीष्यते यतन्तां यतयोऽवश्यमस्या एव प्रसिद्धये । ८ ।।
O
Jain Education International
'ज्ञानसार अष्टटु' – भूण सोडो
-
145
11611
For Private & Personal Use Only
www.jainelibrary.org