________________
(२) मग्नाष्टकम्
प्रत्याहृत्येन्द्रियव्यूह, समाधाय मनो निजम् । दधच्चिन्मात्रविश्रान्ति, मग्न इत्यभिधीयते ।।१।।
यस्य ज्ञानसुधासिन्धौ, परब्रह्मणि मग्नता । विषयान्तरसंचारस्तस्य हालाहलोपमः ।।२।।
स्वभावसुखमग्नस्य, जगत्तत्त्वावलोकिनः । कर्तृत्वं नान्यभावानां, साक्षित्वमवशिष्यते ।।३।।
परब्रह्मणि मग्नस्य श्लथा पौद्गलिकी कथा । क्वामी चामीकरोन्मादाः, स्फारा दारादरा: क्व च ।।४।।
तेजोलेश्याविवृद्धिर्या, साधोः पर्यायवृद्धितः । भाषिता भगवत्यादौ, सेत्थंभूतस्य युज्यते ।।५।।
ज्ञानमग्नस्य यच्छम, तद्वक्तुं नैव शक्यते । नोपमेयं प्रियाश्लेषैर्नापि तच्चन्दनद्रवैः ।।६।।
शमशैत्यपुषो यस्य, विप्रुषोऽपि महाकथा: । किं स्तुमो ज्ञानपीयूषे, तत्र सर्वाङ्गमग्नताम् ।।७।।
यस्य दृष्टि: कृपावृष्टिगिरः शमसुधाकिरः । तस्मै नमः शुभज्ञान-ध्यानमग्नाय योगिने ।।८।।
જ્ઞાનસારનું તત્ત્વદર્શન
144 .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org