________________
षष्ठोऽङ्कः ]
[ १६७
राजा
रोहिणेयः- देव ! किं न पश्यथ चण्डिकायतनमध्ये गिरिगह्वरद्वारम् ? । ( सकौतुकं हस्तिस्कन्धादुत्तीर्य चण्डिकायतनमवलोक्य च ) अहो ! सर्वतः टङ्कच्छिन्नपाषाणभित्तिषु कीटिकाप्रवेशमात्रमपि न लक्ष्यते, किं पुनर्विवरद्वारम् ? ।
(रौहिणेयः पुरः प्रसर्प्य उत्कीर्णकात्यायनीरूपं कपाटं विघटयति ।) सर्वेऽपि - (सविस्मयमुच्चैः स्वरं ) अहो ! महान् बुद्धिप्रयोगः कस्यापि । यतो वयमनेकशोऽत्रायाताः परं केनापि न लक्षितमेतद्विवरद्वारम् । रौहिणेय ! पैत्रिको भावः ?, [ताव ] को वाऽयं प्रपञ्चः ? । रौहिणेयः- देव ! मत्पित्रायं कारितः ।
राजा
(सर्वेऽपि ससंभ्रमं विवरप्रवेशं नाटयन्ति ।) (कन्दरां सर्वतोऽवलोक्य सविस्मयं ) स्फूर्जद्रत्नासपत्नद्युतिविजितम....दर्शनेऽप्यङ्गभाजां
अभय:
मन्ये पातालमूलाद्दितिजगृहमिदं भूमिपीठेऽवतीर्णम् ॥ रोहिणेयः- देव ! अयं सुभद्रश्रेष्ठिसुतो नव्यपरिणीतोऽपहृतः । इयं च मधुमहोत्सवापहृता धनसार्थवाहदुहिता मदनवती । एते च हिरण्यनिचयाः । अतः परं विश्वम्भरापरमेश्वरः प्रमाणम् । (राजा अमात्यमुखमवलोकयति ।)
अभय:
राजा
अभय:
अभय:
सुभद्र:
देव ! न किञ्चिद्विचारार्हमत्रार्थे । समर्प्यतां यद्यस्य तत्तस्य । अत्रार्थे भवानेव प्रमाणम् ।
प्रतीहार ! समाकारय सुभद्रश्रेष्ठिमुख्यं नागरिकलोकम् । ( प्रतीहारो निष्क्रम्य सनागरः प्रविशति ।)
(सुभद्रं प्रति) श्रेष्ठिन् ! अङ्गीक्रियतां स्वपुत्रः । ( धनं प्रति) सार्थपते ! गृह्यतां स्वदुहिता । ( शेषपौरान् प्रति) अहो ! अङ्गीकुरुध्वं समुपलक्ष्य स्वं स्वं वसुजातम् । (सर्वेऽप्युपलक्ष्योपलक्ष्य स्ववस्तून्यङ्गीकुर्वन्ति ।)
( सप्रमोदं राजानं प्रति)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org