________________
१६६
राजा
राजा
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः उपदेशैकलेशोऽपि यदीयः फलतीदृशम् ।
तस्योपदेशः सामस्त्यात्सेवितः किं करिष्यति ? ॥३६॥ रौहिणेयः- (राजानं प्रणम्य) देव ! कमपि प्रेषय पूरुषम् । यथा
वैभारगिरिगह्वरन्यस्तं लोप्नं समर्प्य तत्र भ्रमयतः श्रीवर्धमानस्वामिनः क्रमाम्भोजसपर्यया स्वजन्म सफलतां नयामि । अमात्य ! अस्माकं महत्कौतुकम् । यतः कीदृगस्य स्थानकम् ?,
यस्मिन्निवसता सतानेनास्माकीनं पुरं मुषितम् । अभयः- देव ! क्रियतां प्रसादः ।
प्रतीहार ! समादिशास्मदाज्ञया शङ्खमुखं हस्तिपकम् । यथा सेचनकं हस्तिनं प्रगुणीकृत्य त्वरितमत्रानय ।
(प्रतीहारस्तथा करोति ।) शङ्खमुखः- (प्रगुणितसेचनकः प्रविश्य) देव ! एष सेचनकः कुञ्जरः प्रगुणितः।।
(राजा सेचनकं कुञ्जरमारोहति ।) अभयः- रौहिणेय ! पुरो भव ।
(रौहिणेयः पुरोभूय वैभाराभिमुखं परिक्रामति ।) अभयः- देव ! प्राप्ता एव वैभारभूधरम् । राजा- (पर्वतमालोक्य सकौतुकं) अमात्य !
वैभाराद्रिरयं स यस्य विलसत्प्रोत्तुङ्गशृङ्गान्तरे भ्राम्यन्नह्निविरोचनः प्रतिदिनं कर्णावतंसायते । शर्वर्यां पुनरुन्नतांहिपशिरः शाखाशिखास्कन्दितः
शश्वद्यत्र निशीथिनीपरिवृढो वल्गन् प्लवङ्गायते ॥३७॥ सर्वेऽपि- (सशिरःकम्प) अहो ! अश्रुतचरः कोऽपि देवस्योत्पाद्यार्थप्रौढि
माढ्यम्भविष्णुः कवित्वातिशयः । रौहिणेय ! प्राप्तास्तावन्नीरन्ध्रवीरुधिरुद्धस्त[नितं] नितम्बम् । परं न दृश्यते तगिरिगह्वरद्वारम् ।
राजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org