________________
राजा
१६८]
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः अहो ! ते न्यायचारित्वमद्भुतं भूपतेऽथवा ।
नीतिज्ञानामलोभानां भूभुजां नापरा स्थितिः ॥३९॥ रौहिणेयः- देव ! सर्वैरात्तं स्वं वसुजातम् । सांप्रतं मामनुजानीहि येन
स्वचिन्तितमनुतिष्ठामि । (सहर्षोल्लास) पुरुषावतंस ! साहसिकशिरोमणे ! अथापि किं कश्चिद्भवदभिप्रेतेऽर्थे प्रतिबन्धकः ? । इदं प्राप्तमेव भवता स्वचिन्तितम् । किञ्चत्वं धन्यः सुकृती त्वमद्भुतगुणस्त्वं विश्वविश्वोत्तमस्त्वं श्लाघ्योऽखिलकल्मषं च भवता प्रक्षालितं चौर्यजम् । पुण्यैः सर्वजनीनतापरिगतौ यौ भूर्भुवःस्वोऽचितौ यस्तौ वीरजिनेश्वरस्य चरणी लीनः शरण्यौ भवान् ॥४०॥
तत्कथय किमन्यत्ते प्रियमुपकरोमि ? । रौहिणेयः- देव ! किमतः परमपि प्रियतरमस्ति किमपि मे ? ।
दत्तोऽहिर्द्विषतां शिरस्यपतुलं नीतं प्रकाशं कुलं भूम्ना शौर्यगुणेन विस्मयपदं नीताः प्रवीराः क्षितौ । लीनं वीरजिनेन्द्रपादकमले चेतश्चिरं हंसवत्तत्किञ्चित्प्रियमस्त्यतः परमहो ! यत्प्रार्थये पार्थिव ! ॥४१॥ तथापीदमस्तुक्षितिप्रथितपौरुषक्षतविपक्षपक्षस्थिति
स्थिरस्थितयशोर्जुनीविहितविश्वविश्वम्भर ! । परद्रविणचौर्यतः कृतविराम ! भद्रप्रभाप्रभास्वर ! शिवश्रियं श्रय सुतीव्रची( वीरव्रतात् ।४२॥
(इति निष्क्रान्ताः सर्वे ।) ॥ षष्ठोऽङ्कः समाप्तः ॥
अभयः
॥ ग्रन्थाग्रं. ९६१॥ ॥ समाप्तमदः प्रबुद्धरौहिणेयाभिधानं नाटकम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org