________________
[ प्रबुद्ध रौहिणेय नाटक प्रबन्धः
सव्वंगणुचिट्ठो वि हु सम्मं परमोसहीहि रसिओ वि । सययं रस व्व नेहो विरलस्स थिरत्तणमुवेइ ॥ १६ ॥ अम्हाणं च पुणो
१६०]
कंपोऊरेसु णिच्चं पसरदि हियए निब्भरो सासपूरो कामं कंचीकलावो खसदि विलुलए बंधणा केसपासो । ढिल्लं जादं वरिल्लं विलसदि सयले रोमराई सरीरे जादा दे दंसणादो सुहय ! समहियं कामदुत्था अवस्था ॥ (प्रविश्य पटाक्षेपेण)
प्रतीहारः- (स्वर्णदण्डमुत्पाट्य साक्षेपमिव) अरे ! अप्रस्तावे किमारब्धमदः ? । गन्धर्वका:-(सभयमिव ) प्रतीहार ! दर्शयितुमारब्धं स्वस्वामिनः स्वकं कलाकौशलम् ।
[ प्रतीहार:- ] किन्तु कार्यतां स्वर्लोकाचारम् । गन्धर्वकाः कीदृक्षस्त्रिविष्टपाचार: ? ।
प्रतीहार:- अरे ! किमेतदपि विस्मृतं भवता ? । यतः यः किलात्र त्रिदशः समुत्पद्यते स प्राक्तने स्वे सुकृतदुष्कृते प्रथममाख्याति, ततः स्वर्भोगाननुभवितुमर्हति ।
गन्धर्वका :- (सविनयमिव ) प्रतीहार ! प्रसीदास्माकमेकवारं विस्मृतम् । यतः सर्वमदः स्वस्वामिलाभोत्कर्षितचेतसां तत्कार्यतां त्रिदिवाचारम् ।
प्रतीहार:- ( रौहिणेयमुपसृत्य ) अहो ! प्रेषितोऽस्म्यहमद्य संक्रन्दनेन । यथा कारय नव्योत्पन्नं स्वर्गौकसं स्व:स्थित (ति)म् । तत्कथ्यतां मनुजजन्मोपार्जिते स्वशुभाशुभे । ततः स्वर्गिभोगान् भुङ्क्ष्व ।
रौहिणेयः- (मदपरिणतौ सम्यक्चेतनामास्थाय स्वगतं ) अहो ! किमदः सत्यम् ?,
अस्माकं च पुनः
कम्प ऊर्वोर्नित्यं प्रसरति हृदये निर्भर: श्वासपूर:
कामं काञ्चीकलापः स्खलति विलोलति बन्धनात्केशपाशः । शिथिलं जातं.... [ उपरितनं] विलसति सकले रोमराजी शरीरे जाता ते दर्शनात्सुभग ! समधिकं कामदुःस्थावस्था ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org