________________
षष्ठोऽङ्क]
[१५८ ज्योतिप्रभा-(सोपालम्भमिव) (क) भइणिए ! निन्नेहेहिं सद्धि नेहनिद्धवयण
विन्नासो सुक्ककवोलचुंबणमिव कं परभागं पउणेदि ? । जदो एस वाचंजमो इव मोणव्वयधारी । तुम्हे उण सिणेहसारेहि वयणवियारेहि
निरत्थयं संतम्मेह । रौहिणेयः- (सरोमाञ्चं सानुनयं च) देवि ! भुवनमनश्चकोरचन्द्रिके !
किमेवमनुचितमभिदधासि ? । यन्नामापि हि संमदैकभवनं मूर्छन्मनोजन्मनो जीवातुर्जगतां च कार्मणविधौ मुख्यं च बीजाक्षरम् । किं च प्रेमविसंस्थुलाः परिलसत्काण्डीरमारोत्कटा
यद्येताः स्वयमाश्रयन्ति तदहो ! इन्द्रोऽपि किं नेच्छति ? ॥ अपि च- शश्वद्दास्यमपास्य गौरवगुणं धत्ते बिडौजा अपि
श्रीकण्ठोऽपि वशंवदस्त्यजति न प्रेमोन्मनाः संगमम् । विष्णुविष्टपवन्दितोऽपि नमति स्नेहैकचाटुस्मिते !
यासां ताः सुकृतोद्गमेन महता स्निह्यन्ति कस्याप्यहो ! ॥ विद्युत्प्राभ- (सप्रणयमिव)(ख) नीसेससग्गसीमन्तिणीमाणसरायहंस ! तुम्हारिस
सुमणुसरयणेहि सणाहाओ विबुहवहूओ किं न सोहग्गपडायमवहरंति?। किंतु पुव्वोवज्जियपुनपावणिज्जं अम्हारिसीणं तुम्हारिसेहि संजणियसग्गिक्कसोहग्गेहि सणाहत्तणं अचिरवालिओ य सिणेहसंबंधो जादो ।
(क) भगिनिके ! निःस्नेहैः सार्धं स्नेहस्निग्धवचनविन्यासो शुष्ककपोलचुम्बनमिव कं
परभागं प्रगुणयति ? ! यत एष वाचंयम इव मौनव्रतधारी । यूयं पुनः स्नेहसारैः वचनविचारैर्निरर्थकं संताम्यथ । निःशेषस्वर्गसीमन्तिनीमानसराजहंस । युष्मादृशसुमनुष्यरत्नैः सनाथाः विबुधवध्वः किं न सौभाग्यपताकामपहरन्ति ? । किन्तु पूर्वोपार्जितपुण्यप्रापणीयं अस्मादृशीनां युष्मादृशैः संजनितस्वगैकसौभाग्यैः सनाथत्वमचिरपालितश्च स्नेहसंबन्धो जातः। सर्वाङ्गानुस्थितोऽपि खलु सम्यक्परमौषधीभी रसितोऽपि । सततं रसेव स्नेहः विरलस्य स्थिरत्वमुपैति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org