SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः] [१६१ तत्कि सत्यमेवाहं सुरः संपन्नः ? । यतः सर्वोऽपि दिव्यद्धिवधितप्रमोदोन्मदिष्णुः स्वर्गिवर्गो ममाभ्यर्णचरः । यदि वा नूनमदः किमपि कापटिकं मद्भवजिज्ञासयाऽभयेन चक्रे । अहं तु शुण्डाशौण्डताण्डवविडम्बितमना ईदृगवस्थां प्राप्यापनीतनिगडोऽत्र शायितः । अन्यथाक स्वर्गः पुण्यलभ्योऽसौ ? वाहं निष्पुण्यकाग्रणीः ? । अन्तःपुरप्रदेशं किं कदाचिल्लभतेऽन्त्यजः ? ॥१८॥ तत्कथं ज्ञेयमदः ? । यदि वा ज्ञातम् । यदि कण्टकोद्धारकालकलितं भगवद्वचः संवादिष्यते तत्सत्यं निवेदयिष्ये । नो चेदन्यथोत्तरं करिष्ये । (इति तान् वीक्ष्य) अहो ! भगवर्णितस्वर्गिस्वरूपबाह्या एते । यतः स्वेदस्विनगात्राः क्षितितलस्पृशः म्लानमाल्या लङ्कारास्तन्निश्चितमदः कैतवम् । प्रतीहार:- अहो ! किमिति चिन्ताञ्चितचेता मौनमालम्बसे ? । प्रथय यथावस्थितम् । उन्मनाः सर्वोऽपि स्वर्लोकस्त्ववृत्ताकर्णने । रौहिणेयः- श्रूयतामस्मवृत्तान्तः । (सर्वेऽपि ससंभ्रममिवाकर्णयन्ति ।) रौहिणेयः- दत्तं पात्रेषु दानं नयनिचितधनैश्चक्रिरे शैलकल्पा न्युच्चैश्चैत्यानि चित्राः शिवसुखफलदाः कल्पितास्तीर्थयात्राः। चक्रे सेवा गुरूणामनुपमविधिना ताः सपर्या जिनानां बिम्बानि स्थापितानि प्रतिकलममलं ध्यातमर्हद्वचश्च ॥१९॥ सर्वेऽपि- (ससंभ्रममिव सशिरःकम्पं) अहो ! अस्मत्प्रभोः सत्कृत्यपवित्रं चरित्रम् । प्रतीहारः- ज्ञातमदस्तावत्त्वदीयं सर्वमवदातम् । सांप्रतं दुश्चरितं प्रथय । रौहिणेयः- प्रतीहार ! अर्हदहिरतेनोच्चैः साधुसंसर्गशालिना । दुश्चरित्रं मया क्वापि कदाचिदपि नो कृतम् ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy