SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः ] माद्यद्दुर्घरगन्धसिन्धुरशिरः सिन्दूरेणूत्कर प्रोत्सर्पद्धनरश्मिरञ्जिततनुर्मध्यन्दिनेऽप्यर्यमा । त्वत्सैन्ये जगतीजयाय चलिते श्रीश्रेणिकक्ष्मापते ! कर्णाटीतिलकप्रभामभिभवन्प्राभातिकस्तर्यते ॥८॥ रत्नाङ्गदः- कथमयं बन्दीवृन्दैरुत्कीर्त्यमानो मगधेश्वरः स्वास्थानमलंकृतवान् ? | तर्हि शीघ्रं यथादिष्टमनुतिष्ठामि । त्वमपि पुनदृक्पथातिथीभूयाः । ( इत्युभावपि निष्क्रान्तौ 1) ॥ विष्कम्भकः ॥ (ततः प्रविशति सिंहासनोपविष्टो राजचिह्नालंकृतो राजा सिंहलराजसाधारबन्दीप्रभृतिकञ्च परिवारः । ) बन्दी - अपि च राजा शौण्डीयजितगर्जितर्जितजगत्प्रत्यर्थिपृथ्वीपतिप्रोद्दामद्विपकुम्भभेदनमिलन्मुक्ताढ्यधारोद्धरः । चित्राविष्कृतपुष्करोत्करधरस्त्वन्मण्डलाग्रः प्रभो ! दत्ते नः कपिशीर्षरम्यविजय श्रीवासवेश्मभ्रमम् ॥९॥ यदीयधाराधरदर्शनेऽपि दिशः श्रयन्ते युधि कान्दिशीका प्रत्यर्थिपृथ्वीपतिराजहंसाः । Jain Education International जीयादसौ श्रेणिकभूपतीन्द्रः ॥१०॥ [ १२५ (सप्रमोदं) पश्याहो ! तस्य शस्यप्रबलबलयुतस्यापि कीदृक्चरित्रं चण्डप्रद्योतनाम्नः प्रतिनृपतिभुजागर्वसर्वङ्कषस्य । प्रागेत्यास्मज्जिघृक्षानिचुलितहृदयो यः स पश्चात्प्रनष्टस्त्यक्त्वा सैन्याशरण्यं गलपथलुलितप्राणितः कान्दिशीकः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy