________________
१२४]
किन्तु
दस्यूनां धार्मिकाणां च वैरिणां प्राप्तवैरिणाम् । परस्त्रीपार्श्वगानां च विस्तरः स्वार्थघातकः ॥३॥
रत्नाङ्गदः- (तमुपसृत्य ) अये ! स्निग्धबान्धव ! चिराद् दृष्टोऽसि । किमिति मदनवत्या अपहारदिनादर्वाक् क्वापि नावलोक्यसे ? | यदि वा दुर्लभं खल्वस्मादृशैर्भवादृशामहर्निशं दर्शनम् । यतःतिल इव बहलस्नेहं वारिधिरिव निस्समानसत्त्वाढ्यम् । मित्रोदयभृन्नभ इव नापुण्यैः प्राप्यते मित्रम् ॥४॥ ललिताङ्गः- सखे ! किमिदमभिदधासि ? |
[ प्रबुद्ध रौहिणेय नाटक प्रबन्धः
नालीकविस्मृतमुखं सह ( द ) लङ्कारं लसत्कलाकेलि । विस्मृतिपथं कथंचन किमेति मित्रं कलत्रं च ? ॥५॥
वैरिपराभूतानां वल्लभविरहाग्निदग्धदेहानाम् । धिग् जीवितं नराणां नित्यपराधीनमनसां च ॥६॥ रत्नाङ्गदः- सखे ! किमित्यद्यापि न सूत्रितं तस्या मदनवत्याः प्रत्यानयने किमप्यौपयिकं ? यत्त्वमेवमद्यापि दौर्मनस्यमावहसि ।
ललिताङ्गः- सखे !
ये पदार्थाः कराद् भ्रष्टा विपरीते विधातरि । ते स्वयं सानुकूले स्युर्यत्नः क्लेशाय केवलम् ॥७॥
रत्नाङ्गदः - मित्र ! न किञ्चिद्विधेयं विरहवैधुर्यम्, भविष्यति कियद्दिनैर्मदनवत्या: संगमः । यतः, सुभद्रश्रेष्ठिसुतापहारेणैव परिपाकमानीतं पाटच्चरदुराचारतरुफलम्, तत्कथय एनमर्थं धनसार्थपतिस्त्व (स्त)त्तातो वेत्ति न वा ? । ललिताङ्गः-मद्व्यतिकरं न जानाति । एतज्जानाति, यथा क्रीडन्ती उद्यानतश्चौरेणा
पजह्रे । रत्नाङ्गदः- भविष्यत्यस्मत्सहायी तर्हि सार्थपतिः
(नेपथ्ये)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org