SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः] [ १२३ (स्वजनान् प्रति) भवद्भिर्न काचिच्चिन्ता कार्या । तद् व्रजथ यूयं स्वस्थानम् । (पुरुषान् प्रति) अरे ! नयतैनां वामनिकामुत्पाट्य गृहम् । रत्नाङ्गद ! प्रातस्त्वया महाजनमेलापकः कार्य : । वयमपि स्वगृहं प्रविशामः । (इति निष्क्रान्ताः सर्वे ।) ॥ द्वितीयोऽङ्कः समाप्तः ॥ ॥ अथ तृतीयोऽङ्कः ॥ (ततः प्रविशति रत्नाङ्गदः ।) रत्नाङ्गदः- (पूर्वाशासम्मुखमवलोक्य) कथमयमुदयाचलचूलामालम्बते भगवान् गभस्तिमाली ? । तथाहिकिं सिन्दूरलवाः पतन्ति वियतः ? किं वा कुसुम्भोत्कराः ? किं किङ्केलितरोर्दलानि ? सरलाः किं वा प्रवालाङ्कराः । किं वा शोणसरोजरेणुकणिकाः ? किं कुङ्कमाम्भश्छटाः ? प्राचीमञ्चति भास्वति प्रतिदिशं स्निह्यन्त्यहो ! रश्मयः ॥१॥ स्थाले स्मेरसरोरुहे हिमकणान् शुभ्रानिधायाक्षतांस्तद्रेणुं मलयोद्भवं मधुकरान् दूर्वाप्रवालावलीः । हंसी सद्दधिकेसरोत्करमपि प्रेङ्खच्छिखा दीपिकाः सज्जाऽभून्नलिनी वे रचयितुं प्रातस्त्यमारात्रिकम् ॥२॥ भवतु तावद्, यथादिष्टमनुतिष्ठामि । (इति परिक्रामति । पुरो विलोक्य सहर्ष) कथमयमस्मन्मित्रं ललिताङ्गः परापतति ? । (ततः प्रविशति ललिताङ्गः ।) ललिताङ्गः- (सखेदं) Jain Education International For Private &Personal Use Only . www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy