________________
१२२]
श्रेष्ठी
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः निर्विघ्नं परितः परप्रसृमरप्रौढिप्रियम्भावुका ... तव्यमलाभवत्यपमला तत्पुण्यमेव स्फुटम् । तस्यां संततसंततिर्भवति यत्क्रीडत्सुपुत्रात्मका सा पुण्योपरि मञ्जरी विजयते भूम्ना हृदामोदिनी ॥१८॥ ततः केनापि वाक्यावष्टम्मेन धैर्यमुत्पादयाम्यस्य । यतःन तथाद्भुतसंपत्तिः सुखाय संपद्यते मनुष्याणाम् । आपन्नानां हि यथा दत्तं धैर्यात्मकं वाक्यम् ॥१९॥
(प्रकाश) स्वामिन् ! शोकानलक्लान्तं स्वान्तं मास्म वृथा कृथाः । तथा तथा यतिष्येऽहं यथा पुत्रः समेष्यति ॥२०॥ तद्गच्छति निशम्यतां(?)(निशा?) सांप्रतं निशान्तम् । (रत्नाङ्गददत्तहस्तावलम्बः स्वगृहं प्रति परिक्रामति । गृहमवलोक्य पुनः पुत्रस्मरणमभिनीय च) यद्यस्त्यत्र धनं व्ययेऽप्यनिधनं सौख्याञ्जनं काञ्चनं तुङ्गाङ्गास्तुरगा मरुत्प्रसरगाः क्रीडावनं पावनम् । एकश्चन्न मृणालकोमलतनुर्निस्तन्द्रचन्द्राननः पुत्रस्तन्मम गेहमेतदखिलं भाति श्मशानोपमम् ॥२१॥ (विमृश्य) स्वामिन् ! यथा वामनिकाग्रे स कूटपटुबटुः सुतापहारमुदाहृतवान्, तथा जाने तेन तस्करानुचरेण भाव्यम् । पश्यताहो ! स पापः केनापि नोपलक्षितः ।। (क्षणं विमृश्य सावष्टम्भं) रत्नाङ्गद ! मत्पुत्रापहारमाचरता तेन राजग्रहः प्रागेवात्मनः समानिन्ये । ततः किं बह्वीभिर्वाचोयुक्तिभिः?। दत्त्वात्मीयमगारसारमसमं कृत्वा पणं प्राणितं संशोध्य क्षितिमण्डलं प्रतिकलं मापालमाराध्य च । तैस्तैर्दुर्घटकूटकोटिघटनैस्तं घट्टयिष्ये तथाऽलप्स्यं पुत्रमयं च यास्यति यथा राजग्रहं तस्करः ॥२२॥
रत्नाङ्गदः
श्रेष्ठी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org