SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः ] [ १२१ मनोरमा - ( साश्रु) (क) पुत्तय ! एक्को च्चिय तुमं मे, ता कधं तुमं विणा पाणे धारइस्सं ? | रत्नाङ्गदः - स्वामिन् ! प्रलापपरवशमानसानां भविष्यति कोऽप्युपद्रवः । श्रेष्ठी- किमतोऽप्युपद्रवः कोऽपि ? | यदि वा - उच्चैरतः परं मे भूयांस उपद्रवा भविष्यन्ति । अस्तंगतेंऽशुमालिनि सुखेन भूर्व्याप्यते तमसा ॥ १५ ॥ (क) पडिहदममंगलं भयवदीणं कुलदेवदाणं पसादेण । मनोरमा - श्रेष्ठी ( सवैकल्यं रत्नाङ्गदं प्रति) वत्स मनोरथ ! त्वमप्यत्रागच्छ । क्षणमात्मपितुरुत्सङ्गमुपविश । मनोरमा - ( सात्रं) (ख) नाध ! न एस पुत्तओ, ता किमेवं सोयपरवशत्तमणुचिट्ठध | संठवध अत्ताणं । रत्नाङ्गदः - [श्रेष्ठी] - ( साक्षेपं) कथमबलाजनोचितं कर्म ? | (कोपं धैर्यमालम्ब्य च गृहाभिमुखं कतिचित् पदानि दत्त्वा ) आश्चित्तं नयनैकशोकपिहितं कम्पोत्क्रमौ सत्क्रमौ बाष्पाम्भःकणिकानिपातनिबिडे जाते जडे लोचने । चक्रारूढमिवाखिलं क्षितितलं नष्टो विभागो दिशां कः संपश्यति वेश्मवर्त्म ? तदहो ! अस्तं समस्तं जगत् ॥१६॥ रत्नाङ्गदः- (स्वगतं) अहो ! महतामपि दुःसहः खल्वपत्यवियोगः । यतः प्राणप्रवासे धनविप्रणाशे प्रेमप्रयोगे प्रियविप्रयोगे । पुत्रापहारापदि च स्थिरोऽपि Jain Education International को नाम धैर्यं न जहाति जन्तुः ? ॥१७॥ किञ्च (क) पुत्रक ! एक एव त्वं मे, तत्कथं त्वां विना प्राणान् धारयिष्ये ? | (क) प्रतिहतममङ्गलं भगवतीनां कुलदेवतानां प्रसादेन । (ख) नाथ ! नैष पुत्रकः, तत्किमेवं शोकपरवशत्वमनुतिष्ठथ । संस्थापयतात्मानम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy